सा प्रक्रिया यस्याम् पादपपत्राणि स्वस्मिन् स्थितेन रञ्जकेन सौर्यप्रभाम् अवशुष्यन्ति, तथा पार्थिवरसेन वायुनाश्च सह संयोगेन भोज्यम् मलम् च उत्पादयन्ति, तत् प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते।

एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति। वायौ उपस्थितम् विक्षामः द्वयाम्लजनेयः रंध्रात् पर्णे प्रविशति । पत्रेषु एकं पर्णहरितरञ्जकम् उपस्थितम् यत्  सौर्यऊर्जाम् शोषत्वा ताम् जलेन विक्षाम-द्वयाम्लजनेयेनच सह संश्लेषणेन भोज्यरूपे शर्करा (विक्षामोदितम्) मलरूपे प्राणवायुश्च उत्पादयति। अतः एव पर्णम् पादपस्य पाकशाला इति कथ्यते। एषा प्रक्रिया एव वायुमण्डले प्राणवायोः निर्माणस्य कारणं तथा पृथिव्याम् अन्यजैविकप्रक्रमाय ऊर्जायाः प्रदायिका।

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

निर्देशाःसंपादित करें

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=461540" इत्यस्माद् प्रतिप्राप्तम्