एतत् अनानसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् अनानसलम् अपि सस्यजन्यः आहारपदार्थः । इदं अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । एतत् अनानसफलम् अकृष्टपच्यम् अपि । अनानसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् अनानसफलम् अपि बहुविधं भवति ।

Ananas
Pineapple (Ananas comosus)
Pineapple (Ananas comosus)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Poales
कुलम् Bromeliaceae
उपकुलम् Bromelioideae
वंशः Ananas
Mill.
पर्यायपदानि
नेपालीयम् अनानसफलम्
अनानसफलम्

वयम् अनानसफलं जानीमः एव । एतत् शिरसि पर्णमयं किरीटं धरति । एतस्य सौगन्ध्यम् अपि विशिष्टम् । एतत् फलं वस्तुतः ब्रेजिलमूलम् । दक्षिणामेरिकायां प्र्रुग्वेप्रदेशे चापि एतत् पाप्यते स्म पूर्वम् । १४१३ तमे वर्षे क्रिस्टोफरकोलम्बसः केरिबियनप्रवाससम्ये गौडलुयोद्वीपपरिसरे एतत् फलं लक्षितवान् । अमेरिकायाः मूलावासिनः (नेटिव्-इण्डियन्स्) दक्षिणकेन्द्रामेरिकाप्रदेशे प्र्दुग्वेप्रदेशे च एतस्य प्रसारं कृतवन्तः ।

युरोपखण्डे विपण्याम् अद्य एतत् प्राचुर्येण लभ्यते, किन्तु पुर्वम् एतत् कष्टलभ्यं महाघं च भवति स्म । राजा चार्ल्स् (द्वितीयः) उपायनरूपेण दत्तम् एतत् फलं साभिमानं गृहितवान् दृश्यते कस्मिंश्चित् चित्रे ।

एतत् सस्यं प्रायः २ मीटरुन्नतं वर्धते । एकमीटरविशालं च भवति । ल्ध्वाकारकः सिक्थमयः अङ्कुरः भवति एतस्य । स्मग्रे अपि वर्षे एतत् फलितं भवितुम् अर्हति । एतस्य सस्यस्य पर्णानि अपि बहूपयोगीनि । तेषु यः सिरांशः भवति ततः वस्त्रस्य निर्माणं क्रियते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

 
अनानसक्षेत्रम्
 
अनानसपर्णद्वारा वल्कलनिर्माणार्थम् सज्जीकरणम्
 
अनानसपुष्पम्
 
पूर्णम् अनानसफलम्, अर्धकर्तितम् अनानसफलं च
 
विक्रयणार्थं संस्थापितानि अनानसफलानि
 
अनानस्-फलम्
 
अनानस्-फलम्
"https://sa.wikipedia.org/w/index.php?title=बहुनेत्रफलम्&oldid=480642" इत्यस्माद् प्रतिप्राप्तम्