बाङ्गलापत्रिकाणाम् आवली


निबन्धेऽस्मिन् এই নিবন্ধে बाङ्गला भाषया प्रकाशितानां विविधवार्तापत्रिकाणां संक्षिप्ततथ्यादि सङ्कलितम् अस्ति । अस्याम् आवल्यां सर्वोपरि अस्ति १८१८ तमे वर्षे प्रकाशिता पत्रिका दिग्दर्शन् इति ।

दिग्दर्शन् (१८१८) सम्पादयतु

दिग्दर्शन् इति प्रथमा बाङ्गला पत्रिका आसीत् । श्रीरामपुर् मिशन् इत्यनया संस्थया श्रीरामपुरतः १८१८ तमे वर्षे एप्रिल् मासे इयं पत्रिका प्रप्रथमवारं प्रकाशिता । दिग्दर्शन्-प्रत्रिकायाः प्रथमः सम्पादकः आसीत् जान् क्लार्क् मार्शमैन् । चतुर्पृष्ठात्मिका इयं पत्रिका भाषाद्वये(बाङ्गला, तथा आङ्ग्लभाषा च) प्रकाश्यते स्म । अस्यां पत्रिकायां बाङ्गला तथा आङ्ग्लभाषया अनुदितं रूपं युगपत् एव् प्रकाश्यते स्म । श्रीरामपुरस्य लेखकाः निजस्वीं भाषारीति निर्मातुं समर्थाः आसन् ।[१] एषा मासिकी पत्रिका आसीत् । अत्र विद्यमानाः विषयाः भवन्ति स्म इतिहास-भूगोल-विज्ञानसम्बद्धाः ।

समाचार् दर्पण् सम्पादयतु

समाचार् दर्पण् एका साप्ताहिकी बाङ्गला पत्रिका आसीत् । अस्याः प्रथम प्रकाशनं क्रैस्तवीय १८१८ तमवर्षस्य मै मासस्य २३ तमे दिनाङ्के (बङ्गाब्दः- १२२५, १० जैष्ठ्यः)। समाचार् दर्पणस्य सम्पादकः आसीत् जान् क्लार्क् मार्शमैन्

बाङ्गाल् गेजेट् सम्पादयतु

बाङ्गला गेजेट् एका साप्ताहिकी बाङ्गला पत्रिका आसीत् । प्रथमप्रकाशनं १२२५ बङ्गाब्दे (१८१८ क्रैस्ताब्दे) अभवत् । बहुजनैः मन्वन्ते यत् एषा एव प्रथमा बाङ्गलाभाषया प्रकाशिता पत्रिका । अस्या सम्पादकः आसीत् गङ्गाकिशोर भट्टाचार्यः

संवादकौमुदी सम्पादयतु

संवादकौमुदी साप्ताहिकी पत्रिका आसीत् । अस्याः प्रथमप्रकाशनं १८२१ तमे क्रैस्तवीये वर्षे (१२२८ तमे बङ्गाब्दे) । डिसेम्बर् मासस्य चतुर्थे दिनाङ्के अस्या शुभारम्भः आसीत् । अस्याः पत्रिकायाः सम्पादकः आसीत् ताराचांद् दत्त तथा भवानीचरण बन्द्योपाध्यायः

तत्त्वबोधिनी पत्रिका सम्पादयतु

तत्त्वबोधिनी पत्रिकायाः प्रकाशनं १८४३ तमे वर्षे अभवत् । तत्त्वबोधिन्याः सम्पादकः आसीत् अक्षयकुमार दत्त

सुलभ समाचार् सम्पादयतु

इयम् एका साप्ताहिकी बाङ्गला पत्रिका आसीत् । अस्याः शुभारम्भः १८७० तमे क्रैस्तवीये वर्षे(१२७७) अभवत् ।

पूर्णिमा सम्पादयतु

पूर्णिमा एका मासिकी बाङ्गला पत्रिका आसीत् । अस्याः प्रवर्तकः आसीत् कविः बिहारीलाल चक्रवर्ती । प्रथमप्रकाशनञ्च आसीत् १८५९ तमे क्रैस्ताब्दे । अस्याः वैशिष्ट्यमासीत् यत् प्रतिपूर्णिमातिथौ प्रकाशनं भवति स्म ।

ढाका प्रकाश् सम्पादयतु

ढाका इति नगरतः प्रकाशिता इयं पत्रिका साप्ताहिकी आसीत् । अस्याः प्रथमप्रकाशनम् आसीत् १८६१ तमवर्षस्य मार्च् मासस्य ७ दिनाङ्के । ढाकाप्रकाशस्य सम्पादकः आसीत् कृष्णचन्द्र मजुमदार

मासपयला सम्पादयतु

जयश्री सम्पादयतु

बङ्गश्री सम्पादयतु

देश सम्पादयतु

साप्ताहिकपत्रिका इयं साहित्यपत्रिकारूपेण प्रकाशिता आसीत् । अस्याः प्रथमप्रकाशो अभवत् ८ अग्रहायणः १३४० बङ्गाब्दे (१९३३ क्रैस्ताब्दः) । देशपत्रिकायाः प्रधानसम्पादकः आसीत् सत्येन्द्रनाथ मजुमदार ।

कविता सम्पादयतु

मन्दिरा सम्पादयतु

पूर्वाशा सम्पादयतु

चतुरङ्ग सम्पादयतु

निरुक्त सम्पादयतु

विश्वभारती पत्रिका सम्पादयतु

समकाल सम्पादयतु

ग्रन्थसूत्राणि सम्पादयतु

  • प्रभातकुमार दास, जीवनानन्द दाश, प्रकाशकः पश्चिमबाङ्गला अकाडेमी, कोलकाता, १९९९। पृ २६७-२७३।
  • अमित्रसूदन भट्टाचार्यः, बङ्गदर्शन् पत्रिका ओ बङ्किमचन्द्र, प्रकाशकः मित्र ओ घोष पाब्लिशार्स्, कोलकाता, १४१५। पृ २२३-२२८।

टिप्पणी सम्पादयतु

  1. बाङ्गला साहित्य परिचय, ड. पार्थ चट्टोपाध्याय, तुलसी प्रकाशनी, कोलकाता, २००८ क्रैस्ताब्दः, पृ. ३०३