बाळ ठाकरे

(बाळासाहेब ठाकरे इत्यस्मात् पुनर्निर्दिष्टम्)

बाळ ठाकरे हिन्दुत्वस्य प्रतिपादकः, महाराष्ट्रवादी नायकः, शिवसेनापक्षस्य संस्थापकाध्यक्षश्च । अस्य जन्म १९२६ तमवर्षस्य जनवरीमासस्य २३ दिनाङ्के अभवत् । स्वस्य विचाराणाम् उपस्थापनार्थं १९६६ तमवर्षस्य जूनमासस्य नवदशदिनाङ्के शिवसेनानामकं राजकीयदलम् आरब्धवान् । एतस्य पिता केशवठाक्रे सामाजिककार्यकर्ता तथा प्रगतिपरः लेखकः आसीत् । महाराष्ट्रस्य एकीकरणस्य आन्दोलने सक्रियः आसीत् । हिन्दुत्वस्य प्रादेशिकतायाः च विषये तीव्रम् आग्रहवान् बाळासाहेबः एतयोः विषये निरन्तरं जनान् प्रेरयन् सङ्घटनस्य बलम् वर्धितवान्। महाराष्ट्रे भारतीयजनतापक्ष-शिवसेनयोः संयुक्तसर्वकारस्य रचनायाम् एतस्य महत् योगदानम् अस्ति । २०१२ तमवर्षस्य नवम्बरमासस्य १७ दिनाङ्के मुम्बयीनगरे दिवङ्गतः । अस्य अन्त्यक्रियायां सम्मिलितः ऐतिहासिकः २०लक्षात्मकः जनसागरः एतस्य जनप्रियतां द्योतयति ।

बाळ केशव ठाकरे
शिवसेनापक्षस्य संस्थापकः अध्यक्षश्च
In office
19 July 1966 - 17 November 2012
Preceded by सृष्टं स्थानम्
Succeeded by उद्धव ठाकरे
व्यैय्यक्तिकसूचना
Born (१९२६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२३)२३ १९२६
पुणे, बाम्बे प्रेसिडेन्सि, ब्रिटिश् भारतम्
(अधुना महाराष्ट्रराज्ये, भारतम्)
Died १७ २०१२(२०१२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७) (आयुः ८६)
मुम्बई, महाराष्ट्रराज्यम्, भारतम्
Political party शिवसेना
Spouse(s) मीना ठाकरे
Children बिन्दुमाधव ठाकरे
जयदेव ठाकरे
उद्धव ठाकरे[१]

टिप्पणी सम्पादयतु

  1. Menon, Meena (17 November 2012). "Leader who brought ethnic politics to Mumbai melting pot". The Hindu (Chennai, India). 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बाळ_ठाकरे&oldid=480651" इत्यस्माद् प्रतिप्राप्तम्