बुद्धजन्मोत्सवः अथवा बुद्धपौर्णिमा इति बौद्धधर्मीयानां महत्त्वपूर्णं पर्व अथवा उत्सवः अस्ति । इदं पर्व जगति विशेषतः भारते वैशाखपौर्णिमायाम् आचर्यते । अस्मिन् दिने एव गौतमबुद्धस्य जन्म, ज्ञानप्राप्तिः महापरिनिर्वाणं च इति तिस्रः अपि घटनाः जाताः आसन् । स्वस्य मानवतावादिनां विज्ञानवादिनां धम्मसिद्धान्तानां कारणात् तथागतः बुद्धः जगति महापुरुषत्वेन गुरुत्वेन च परिगण्यते । बौद्धधर्मीयानाम् अधिकसङ्ख्यावत्सु चीन-जपान-व्हियेतनाम-थायलंड-भारत-म्यानमार-श्रीलङ्का-सिङ्गापूर-अमेरिका-कम्बोडिया-मलेशिया-नेपाल-इण्डोनेशियादेशेषु तथैव जगति १८० देशेषु बौद्धजनाः इदं पर्व उत्साहेन आचरन्ति । एतेषु बहुषु देशेषु बुद्धजन्मपर्वणः सार्वजनिकः विरामः अपि भवति । भारते अपि बुद्धजन्मपर्वणः निमित्तकः सार्वजनिकः विरामः भवति ।

गौतमबुद्धःBuddha with transparent background.png

बौद्धधर्मः

बौद्धधर्मःDharma Wheel.svg
बुद्धस्य स्तूपः,आन्ध्रप्रदेशः

स्वरूपम्सम्पाद्यताम्

बुद्धपौर्णिमायां समग्रजगतः बौद्धानुयायिनः बोधगयाम् आगत्य प्रार्थनां कुर्वन्ति । बिहारराज्ये स्थितं बोधगया इति क्षेत्रं बौद्धधर्मानुयायिनां पवित्रं तीर्थक्षेत्रम् अस्ति । गृहत्यागात् परं सिद्धार्थेन सत्यस्य अन्वेषणार्थं सप्तवर्षं यावत् तीव्रा साधना तपः च आचरतम् । ततः बोधगयायां बोधिवृक्षस्य अधः सः बुद्धत्वम् अथवा ज्ञानप्राप्तिम् अलभत । एषा घटना वैशाखपौर्णिमायां जाता । तदाराभ्य एषः दिवसः बुद्धपौर्णिमा इति नामा विख्यातः अस्ति । बुद्धपौर्णिमासमये कुशीनगरे महापरिनिर्वाणविहारे एकमासं यावत् तथागतबुद्धस्य स्मरणं क्रियते । इदं स्थलं यद्यपि गौतमबुद्धेन सम्बद्धम् अस्ति तथापि परिसरे विद्यमानाः अन्ये जनाः अपि अत्र महता प्रमाणेन आगत्य अत्रत्ये बुद्धविहारे श्रद्धया पूजनं कुर्वन्ति । अस्य विहारस्य माहात्म्यं बुद्धस्य महापरिनिर्वाणेन सम्बद्धम् अस्ति । अस्य विहारस्य स्थापत्यं अजिण्ठागुहायाः विहारसदृशम् अस्ति । अस्मिन् विहारे अन्तिमक्षणे मृत्युशय्यायां स्थितस्य बुद्धस्य ६.१ मीटर् दीर्घा मूर्तिः (भूस्पर्शमुद्रायाः) अस्ति । एषा मूर्तिः रक्तमृत्तिकया निर्मिता अस्ति । यस्मात् स्थलात् मूर्तेः कृते मृदाहरणं कृतं तस्मिन् स्थले एव एषः विहारः निर्मितः अस्ति । विहारस्य पूर्वस्यां दिशि एकः स्तूपः अस्ति । तत्र गौतमबुद्धस्य अन्तिमसंस्कारः जातः ।

बौद्धजन्मपर्वणि बौद्धानुयायिनः गृहे दीपान् ज्वालयन्ति । पुष्पैः गृहाणि अलङ्कुर्वन्ति । बौद्धपरम्परायाः धार्मिकग्रन्थानां पठनं वाचनं च क्रियते । विहारस्थानां गृहे विद्यमानानां च बौद्धमूर्तीनां पुष्पैः दीपैः च पूजनं क्रियते । बोधिवृक्षः अपि पूज्यते । तस्य शाखाः पताकाभिः अलङ्क्रियन्ते । वृक्षं परितः दिपाः प्रज्वाल्यन्ते । वृक्षस्य मूले दुग्धं सुगन्धि जलं च समर्प्यते । अस्मिन् दिने कृतैः सत्कर्मभिः पुण्यार्जनं भवति इति जनानां श्रद्धा अस्ति । फलकम्:Gapबुद्धपौर्णिमायां देहल्यां सङ्ग्रहालये विद्यमानानि बुद्धस्य अस्थीनि सर्वेषां दर्शनार्थं बहिः स्थाप्यन्ते । तत्रापि आगत्य जनाः प्रार्थनां कुर्वन्ति । अस्मिन् दिने बौद्धधर्मानुयायिनः लुम्बिनी, सारनाथः, गया, कुशीनगरं, दीक्षाभूमिः इत्यादीनि पवित्रबौद्धक्षेत्राणि गत्वा प्रार्थनां पूजां च कुर्वन्ति । बौद्धधर्मसम्बद्धानां सूत्राणां त्रिपिटकानां भागस्य वाचनं पाठनं च क्रियते । व्रतस्य भागरूपेण अस्मिन् दिने उपवासः क्रियते । दानधर्मः क्रियते । अस्मिन् दिने बहुविधाः कार्यक्रमाः आयोज्यन्ते । श्रीलङ्कायाम् अन्येशु आग्नेयदेशेषु अयम् उत्सवः ‘वेसक-उत्सवः’ इति नाम्ना आचर्यते । वेसक पदं वैशाखपदस्य अपभ्रंशः अस्ति । अस्मिन् दिने बौद्धगृहेषु दीपाः प्रज्वाल्यन्ते पुष्पैः गृहम् अलङ्क्रियते ।

  • बौद्धधर्मग्रन्थानाम् अखण्डं वाचनं पठनं च क्रियते ।
  • बौद्धविहारेषु (बौद्धमन्दिरेषु) च धूपाः ज्वाल्यन्ते । बुद्धमूर्तयः पुष्पैः फलैः च अलङ्क्रियन्ते दीपैः च पूज्यन्ते ।
  • बोधिवृक्षः पूज्यते ।
  • तस्य शाखाः पताकाभिः अलङ्क्रियन्ते । वृक्षस्य मूले दुग्धं सुगन्धि जलं च समर्प्यते । वृक्षं परितः दिपाः प्रज्वाल्यन्ते ।
  • अस्मिन् दिने मांसाहारः वर्ज्यः भवति ।
  • पक्षिणः पञ्जरात् मुक्ताकाशे मोच्यन्ते ।
  • दीनानां कृते भोजनं वस्राणि च दीयन्ते ।
  • बौद्धानुयायिनः तत्रागत्य प्रार्थनां कुर्युः अतः देहल्यां सङ्ग्रहालये विद्यमानानि बुद्धस्य अस्थीनि बहिः स्थाप्यन्ते ।

भारतस्य बुद्धजन्मोत्सवस्य इतिहासःसम्पाद्यताम्

डा.बाबासाहेब अम्बेडकरमहोदयस्य अध्यक्षतायां १९५० वर्षे मे मासस्य द्वितीयदिनाङ्के भारते प्रथमवारं देहल्यां बुद्धजन्मोत्सवः आचरितः । अस्मिन् प्रसङ्गे अम्बेडकरमहोदयेन बुद्धस्य जीवनकार्यसम्बद्धाः विचाराः उपस्थापिताः । अस्मिन् समारोहे विभिन्नदेशानां विधिज्ञाः प्रतिनिधयः भिक्षुसमुदायः इति एतेषाम् आहत्य विंशतिसहस्त्रजनानां समुदायः उपस्थितः आसीत् । एवंप्रकारेण भारते बुद्धजन्मोत्सवः आरब्धः । १९५१ वर्षे अम्बेडकरस्य एव अध्यक्षतायां त्रिदिनात्मकः बुद्धजन्मोत्सवः आचरितः । १९५६ वर्षे बाबासाहेबमहोदयेन जीवनस्य अन्तिमः बुद्धजन्मोत्सवः देहल्याम् एव आचरितः । देहल्याः अनन्तरं बाबासाहेबमहोदयेन महाराष्ट्रे अपि बुद्धजन्मोत्सवः आचरणं १९५३तः आरब्धम् । १९५६पर्यन्त तस्य अध्यक्षतायां प्रमुख-उपस्थतौ च महाराष्ट्रे बुद्धजन्मोत्सवस्य भव्याः कार्यक्रमाः जाताः । महाराष्ट्रे बुद्धजन्मोत्सवस्य कार्यक्रमाः प्रामुख्येन मुम्बयिनगर्यां जाताः । भारते महाराष्ट्रे च बुद्धजन्मोत्सवस्य परम्परायाः आरम्भः बाबासाहेबमहोदयेन कृतः अतः सः भारतस्य सार्वजनिकबुद्धजन्मोत्सवस्य प्रणेता अस्ति ।

‘अन्येषां सर्वेषां धर्मसंस्थापकानां जन्मदिने देशे विरामः अस्ति । तर्हि मानवतायाः सन्देशप्रदायकस्य तथागतस्य बुद्धस्य जन्मदिने किमर्थं विरामः न स्यात् ? अतः नियोजितविरामेषु एकं विरामं न्यूनं कृत्वा अथवा एकं विरामं वर्धयित्वा अस्माकं कृते यच्छन्तु’ इति साग्रहं प्रतिपादनं अम्बेडकरमहोदयेन तस्मिन् समये विद्यामानस्य केन्द्रसर्वकारस्य पुरतः कृतम् । बुद्धजन्मोत्सवस्य विरामः स्यात् इति अभियाचनं १९४२तः आसीत् । अम्बेडकरमहोदस्य प्रयत्नेन प्रभावेन च २७ मे १९५३ दिने केन्द्रसर्वकारेण बुद्धजन्मोत्सवस्य विरामः उद्घोषितः । महाराष्ट्रसर्वकारेण तु तस्मिन् दिने विरामः न उद्घोषितः । एतेषां प्रसङ्गानाम् उल्लेखं स्वयं बाबासाहेबमहोदयः एव १९५३ वर्षे मुम्बयिनगरे बुद्धजन्मोत्सवस्य भाषणप्रसङ्गे कृतवान् ।

बुद्धजन्मोत्सवस्य महत्त्वम्सम्पाद्यताम्

जगतः दुःखानि नाशयितुं गौतमबुद्धः विभिन्नान् मार्गान् अनुसृतवान् । तदर्थं गृहदारादिकं सर्वं विहाय ध्यानमार्गं तपसः मार्गम् अपि सः अनुभूतवान् । परं वैशाखशुद्धपौर्णिमायां सः ज्ञानं प्राप्तवान् दुःखस्य मूलं नाशयितुं मार्गं प्राप्तवान् । एषा पौर्णिमा एव बुद्धपौर्णिमा इति नाम्ना आचर्यते ।

आरम्भकाले प्रथमावस्थायाः बौद्धधर्मः सरलः सुगमः नैतिकतत्त्वावधिष्ठितः मानवता-करुणा-समतानां पुरस्कर्ता च आसीत् । अस्मिन् काले बुद्धः असामान्यगुणवान् परं मनुष्यदेहधारी एव अस्ति इति विश्वासः आसीत् । सः बोधिवृक्षस्य अधः संबोधि अर्थात् ज्ञानं प्राप्तवान् अर्थात् अस्मिन् जगति शाश्वतसत्यानि कानि जगतः व्यवहारः कथं प्रचलति इति एतेषां सम्बद्धानां ज्ञानं प्राप्तवान् । तस्य कृते प्रथमं चतुर्णाम् आर्यसत्यानां साक्षात्कारः जातः । सर्वत्र विवादः कलहः मारणम् इति एतद् दृष्ट्वा जगतः गभीरचिन्तनेन ज्ञायते यत् सर्वत्र दुःखं प्रसृतम् अस्ति । एतद् प्रथमम् आर्यसत्यं तेन ज्ञातम् । दुःखं किमर्थं भवति इत्यस्मिन् सर्दर्भे चिन्तने सः ज्ञातवान् यत् एतद् सर्वं लोभात् तृष्णायाः कारणात् भवति । एकस्य वस्तुनः विषये द्वयोः मनसि तृष्णा (इच्छा_ उत्पन्ना चेत् तस्य वस्तुनः प्राप्त्यर्थं विवादः कलहः युद्धं प्रवर्तते । अतः तृष्णा दुःखस्य मूलम् अस्ति । एतद् द्वितीयम् आर्यसत्यं सः अवगतवान् । यस्य वस्तुनः किमपि कारणं तद् वस्तु कारणे नष्टे नश्यति । इदं शाश्वतं सत्यम् अस्ति । अतः तस्य दुःखस्य निरोधः भवति । इदं तृतीयम् आर्यसत्यं सः ज्ञातवान् । निरोधः भवति चेत् तस्य प्राप्तेः अपि कश्चन उपायः स्यात् । इदं चतुर्थम् आर्यसत्यं सः ज्ञातवान् ।

हिन्दुधर्मीयानाम् इव बौद्धानां कर्मणि पुनर्जन्मनि च विश्वासः नास्ति । अतः जन्ममरणानां संसारचक्रं कथं प्रचलति इति स्पष्टीकर्तुं प्रतीत्य-समुत्पादम् अपि सः अवगतवान् । प्रतीत्य-समुत्पादः नाम किञ्चन वस्तु उत्पद्यते तत् स्वयम्भु न भवति काचित् पूर्वगामिनी कारणपरम्परा तस्य पृष्ठतः भवति । अतः जन्ममरणं कथं भवति इति प्रतिपादिका काचित् कारणपरम्परा अस्ति । एकस्य जन्मनः तस्य पूर्वापरजन्मना सह कीदृशः सम्बन्धः अस्ति इति प्रतीत्यसमुत्पादे उक्तम् अस्ति । (अर्थात् पूर्वजन्म परजन्म भवति । स्वयं गौतमबुद्धस्य अनेकानि जन्मानि जातानि । तस्य जन्मनः कथाः जातककथाः इति कथ्यन्ते । अर्थात् एतानि जन्मानि यता जातानि तदा गौतमबुद्धः नासीत् । )




बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=बुद्धजयन्ती&oldid=456747" इत्यस्माद् प्रतिप्राप्तम्