भक्त्या त्वनन्यया शक्य...

(भक्या त्वनन्यया - 11.54 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुःपञ्चाशत्तमः(५४) श्लोकः ।

पदच्छेदः सम्पादयतु

भक्त्या तु अनन्यया शक्यः अहम् एवंविधः अर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥

अन्वयः सम्पादयतु

परन्तप ! अर्जुन ! अहम् अनन्यया भक्त्या तु एवंविधः तत्त्वेन ज्ञातुं द्रष्टुं च प्रवेष्टुं च शक्यः ।

शब्दार्थः सम्पादयतु

परन्तप = शत्रुतापन !
अनन्यया = अनितरया
भक्त्या तु = प्रेम्णा तु
एवंविधः अहम् = एवंप्रकारः अहम्
तत्त्वेन = परमार्थतः
ज्ञातुम् = वेदितुम्
द्रष्टुं च = अवलोकितुं च
प्रवेष्टुं च = प्राप्तुं च
शक्यः = अर्हः ।

अर्थः सम्पादयतु

शत्रुतापन ! अर्जुन ! अहम् अनिरतेण प्रेम्णा तु एवंप्रकारः तत्त्वतः वेदितुं द्रष्टुं च प्राप्तुं च शक्यः नान्येन उपायेन ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु