भारतीयकालमानः
पञ्चाङ्गम् इति भारतीयकालगणनायाः विशिष्टं नाम अस्ति । तिथिः, वासरः, नक्षत्रम्,योगः, करणम् इति पञ्च अङ्गानि दिननिदेशर्थं भवन्ति । वर्षे ३६५ दिनानि भवन्ति । अस्य संवत्सरम् इति नाम । प्रतिसंवत्सरम् उत्तरायणं दक्षिणायनं चेति द्वे अयने भवतः । प्रतिवर्षं ६ ऋतवः १२ मासाः भवन्ति । प्रतिमासं शुक्लपक्षः कृष्णपक्षः इति भागद्वयम् अस्ति । प्रत्येकस्मिन् पक्षे १५ तिथयः भवन्ति । सप्तवासराः सन्ति । आवर्तनेन प्रतिदिनं कश्चित् वासरनाम भवति । एवमेव प्रतिदिनस्य २७ नक्षत्रेषु किञ्चित्,२७ योगेषु कश्चित्, ११ करणेषु किञ्चित्, १५ तिथिषु काचित्, निर्दिष्टः भवति एव ।
६०संवत्सराणि
सम्पादयतुप्रभवो विभवः शुक्लः प्रमोदूतः प्रजापतिः।
आङ्गीरसः स्रीमुखो भावो युवोधातृस्तथेश्वरः॥
बहुधान्यः प्रमाथी च विक्रमो विशवत्सर:।
चित्रभानुः स्वभानुश्च तारण: पार्थिवो व्ययः॥
सर्वजित् सर्वधारी च विरोधि विकृतिः खरः।
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ॥
हेविलम्बो विलम्बश्च विकारी शार्वरिः प्लवः।
शुभकृत् शोभकृत् क्रोधि विश्वावसुपराभवौ॥
प्लवङ्ग: कीलकः सौम्यः साधारणविरोधिकृत्।
परिधावी प्रमादी च आनन्दो राक्षसो नलः॥
पिङ्गलः कालयुक्तिश्च सिद्दार्थी रौद्रदुर्मती।
दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनोअक्षयः॥
२अयने
सम्पादयतुउत्तरायणः दक्षिणायनश्च ।
षड्ऋतवः
सम्पादयतु- वसन्तः
- ग्रिष्मः
- वर्षा
- शरद्
- हेमन्तः
- शिसिरः
द्वादशमासाः
सम्पादयतु- वैशाखः
- ज्येष्ठः
- आषाढः
- श्रावणः
- भाद्रः
- आश्विनः
- कार्तिकः
- मार्गशीर्षः
- पौषः
- माघः
- फाल्गुणः
- चैत्रः
द्वेपक्षे
सम्पादयतु- शुक्लपक्षः
- कष्णपक्षः
सप्तवासराः
सम्पादयतु- रविः
- साेमः
- मङ्गलः
- बुधः
- बृहस्पतिः
- कुजः
- स्थिरः
२७नक्षत्राणि
सम्पादयतुअश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।
आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥
पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।
हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥
अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।
पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥
घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।
उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥