भारतीयनौसेना

भारतसैन्ये नौकसेवा शाखा
(भारतीयनौकादलम् इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीयनौकादलम्(Indian Navy) भारतीय सेनायाः विभागः वर्तते । एषः विभागः भारतदेशस्य तिसृषु दिक्षु जलावृतस्य सागरप्रदेशात् रक्षयति । भारतदेशस्य राष्ट्रपतिः भारतीयनौकादलस्य सेनाधिपतिः भवति । अस्मिन् विभागे यस्य अधिकारेः चत्वारि नक्षत्रपदवी भवति तस्य एव जलयोधातिपतिः भवितुं योग्यता भवति । छत्रपति-शिवाजी महाराजः भारतीयनौकादलस्य पितृरूपेण मन्यन्ते । यद्यपि भारतीयनौकादलस्य कार्यं भारतस्य समुद्रतीरप्रदेशात् रक्षणकार्यं भवति, तथापि अतिवृष्टिः समये जलावृतप्रदेशेषु अपि रक्षणार्थं सर्वदा सिद्धाः भवन्ति । २०१३ तमस्य वर्षस्य गणनानुसारं भारतीयनौकादले ५८,३५० सैनिकाः देशार्थं कार्यं कुर्वन्ति । तत्र एकं वायुयानानां वाहकः, ८ क्षेपणी विनाशकाः, १ परमाणु जलान्तर्गामी च वर्तन्ते ।

भारतीयसेना

भारतीयनौसेना


Indian Navy crest
सक्रियः १९४७–प्रस्तुतम्
देशः  भारतम्
शाखा नौ
सैन्यबलम् ५८,३५० सक्रियाः
१९० वायुयानानि
सक्रियनौकानाम् आवली
विभागीयांशः रक्षणामन्त्रालयः
भारतीयसेनादलानि
मुख्यकार्यालयाः नवदेहली
ध्येयवाक्यम् शं नो वरुणः
वार्षिकोत्सवः नौदिनम्: ४ डिसेम्बर्
युद्धानि पोर्चुगीस्-भारतयुद्धम्
भारत-पाकिस्तानयुद्धम् १९६५
बाङ्ग्लमुक्तियुद्धम्
भारत-पाकिस्तानयुद्धम् १९७१
अलङ्काराः भारतीयसेनागौरवप्रशस्तयः
सेनानायकाः
नौसेनाप्रमुखः अड्मैरल् देवेन्द्रकुमारजोशी
विशिष्टाः सेनानायकाः अड्मैरल् एस् एम् नन्द

भारतीयनौकादलस्य विभागः सम्पादयतु

नौकादलस्य वायु अङ्गम् सम्पादयतु

  • नौकादलस्य वायु अङ्गम् एकं प्रमुखं विभागं वर्तते ।
  • नौकादलस्य वायु अङ्गस्य सविधे मिकोयान् मिग्-२९, सी हर्रियर् जेट्स् वायुयानानां वाहकस्य सविधे ऐ एन् एस् विराट् वर्तते ।
  • कमोव्-३१ वायुसम्बन्धित पूर्वसूचनां ददाति ।
  • सी किङ्ग् एवं एच् ए एल् ध्रुव् उदग्रयानस्य साहाय्येन मार्कोस् कार्यं करोति ।

समुद्रीयशासनसेना सम्पादयतु

  • समुद्रशासनसेनायाः मार्कोस् इति अस्य नामान्तरं भवति । अस्याः स्थापना १९८७ तमे वर्षे अभवत् । एषा सेना युद्धे तथा आतङ्कवादीनां विरुद्धं साक्षात् कार्यं करोति ।
  • १९८८ तमे वर्षे मार्कोस् सफलतया विमोचनकार्यं कृतमासीत् ।
  • जम्मूकाश्मीरप्रदेशे विद्यमान झेलम् तथा वुलर् सरोवरप्रदेशे आतङ्कवादीनां विरुद्धं युद्धं कृत्वा विमुक्तताम् आनीतम् ।
  • २००८ तमे वर्षे नवेम्बर्-मासे मुम्बई नगरे ताज् महल् तथा टवर् लग्सूरी होटेल् स्थले आतङ्कवादीनां आक्रमणस्य विरुद्धं मार्कोस् सेनायाः अपि भागग्रहणम् आसीत् । एषा घटना २६/११ मुम्बई आक्रमणम् इति नाम्ना प्रसिद्धा वर्तते ।

चित्रवीथिका सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भारतीयनौसेना&oldid=440395" इत्यस्माद् प्रतिप्राप्तम्