भैरवेश्वरशिखरं (Bhairaveshvara Hill)कर्णाटकस्य उत्तरकन्नडमण्डले याणे विद्यते । पश्चिमघट्टे स्थितम् उत्तरकन्नडमण्डलं सर्वदा हरितैः वनैः, जलपातैः, गगनस्पर्षिभिः वृक्षैः, वैविध्यमयैः जीवराशिभिः च पूर्णं भवति ।

भैरवेश्वरशिखरम्

अत्रत्या शिलाराशिः कर्णाटकस्य भूमेः विज्ञानस्य आरम्भस्य अध्यायान् वदति । सामान्यतः २५० कोटिवर्षेभ्यः पूर्वम् एषः भागः सागरतले आसीत् । अनन्तरं पर्वतानां पङ्क्तिः भूत्वा पश्चिमघट्टस्य रूपं प्राप्नोत् ।

उत्तरकन्नडमण्डलस्य सिरसि-कुमटामार्गे त्रिंशत् किलोमीटर् दूरे आनेगोन्दिग्रामः अस्ति । ततः अग्रे बेळ्ळङ्गि, सण्डोळ्ळिग्रामं च पारयित्वा चतुर्दशकि.मी. कुमटामार्गेण गत्वा कि.मि. द्वयं पद्भ्यां चलति चेत् ‘याणं’ लभ्यते ।

अत्र गत्वा उपरि पश्यन्ति चेत् आकाशपर्यन्तं स्थितमिव तीक्ष्णशिलयोः शिखरद्वयं दृश्यते - भैरवेश्वरशिखरं मोहिनीशिखरञ्च । एतौ एव प्रकृत्या निर्मिते तीक्ष्णशिले ।

मोहिन्याः रूपं धृत्वा विष्णुः भस्मासुरस्य संहारम् अत्रैव कृतवान् इति प्रतीतिः विद्यते ।

अत्र शिखरद्वयमपि सुधाशिलया रूपितमस्ति । जेडिमृत्तिकया प्रतिमाः कृताः इव अत्र सुधाशिलया बाणरूपिरचनाः प्रकृत्या निर्मिताः सन्ति ।

सामान्यतः २५० कोटिवर्षतः निरन्तरं प्रकृतेः विकोपं सम्मुखीकृत्य अपि एते शिखरे नष्टे न जाते । अस्य कारणम् अनयोः औन्नत्यम् । भैरवेश्वरशिखरं षष्ठ्यधिकमीटर्मितम् उन्नतम् अस्ति । तस्य अधः भैरवेश्वरस्य मन्दिरम् अस्ति । विग्रहस्य उपरि चण्डिकातीर्थस्य अन्तर्जलं बिन्दुरूपेण स्यन्दति ।

सुधाशिला सुलभतया जले विलीना भवति । अतः वृष्ट्या तस्याः मृदुभागः मन्दं मन्दं गच्छति । किन्तु सुधाशिलया सह मेग्निषियं द्रव्यं मिश्रितम् अस्ति इत्यतः केवलं मृदुभागः नश्यति न तु दृढभागः । याणे एतादृशः भागः एव बाणः इव तीक्ष्णां रचनां प्राप्तवान् अस्ति ।

एताः तीक्ष्णशिलाः भारते केवलं न, पूर्णपूर्वगोलस्य अद्भुतेषु अन्यतमाः इति प्रख्याताः सन्ति ।

एतेषां शिखराणां परितः खन्योद्यमार्थं प्रयत्नः प्राचलत् । तथैव यदि अभविष्यत् तर्हि अद्य एतस्य निसर्गस्य अद्भुतकलाकौशलम् अवशिष्टं न अभविष्यत् । किन्तु जागरितानां परिसरप्रेमिणां प्रतिरोधस्य कारणतः तत् कार्यं सफलं न अभवत् । अतः एषा विशिष्टा रचना अवशिष्टा अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=भैरवेश्वरशिखरम्&oldid=367392" इत्यस्माद् प्रतिप्राप्तम्