मतङ्गः

(मतङ्ग: इत्यस्मात् पुनर्निर्दिष्टम्)


मतङ्ग:(Mathanga)

मतङ्गस्य ग्रन्थ: उपलभ्यते परं ग्रन्थकारस्य विवरणं क्वापि न लभ्यते। ग्रन्थस्य रचनाकाल: अनिर्णीत:।प्रायश: ख्रिस्ताब्दस्य चतुर्थशतकत: सप्तमशतकपर्यन्तं विद्यमाने कालखण्डे कदाचिदस्य रचना जाता इति तर्क:।ग्रन्थे भरतमुने: नाट्यशास्त्रस्य उल्लेख: अस्ति।अत: भरतादनन्तरं मतङ्ग: जात: इति ध्रुवम्।ग्रन्थेऽस्मिन् एते विशेषा: विषया:-

१)मूर्च्छनाविषयस्य सविस्तरं विवेचनम्।

२)राग: इति अस्य शब्दस्य प्रप्रथमतया उल्लेख:।

३)य: राग: सामान्यजनेषु प्रथित: स देशी राग: इति देशि-रागस्य लक्षणं कृतम्।

४)ग्रामरागाणामुत्पत्ति: जातित: भवतीति प्रतिपादितम्।

५)संवादिस्वरेषु ९श्रुतीनामथवा १३ श्रुतीनामन्तरमस्ति।विवादिस्वरेषु केवलं श्रुतिद्वयस्यान्तरमस्तीति प्रतिपादितम्।श्रुतिविषये भरतस्यापि मतमेवमेवास्ति।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मतङ्गः&oldid=409551" इत्यस्माद् प्रतिप्राप्तम्