मत्तविलासप्रहसनं महेन्द्रवर्मण लिखितं नाटकम्। एतद् नाटकं जैनबौद्धकपालिकपाशुपतानाम् विशिष्टाचारान् प्रदर्शयति। अस्य नाटकस्य अधिकरणं काञ्चीपुरम्।

कथासम्पाद्यताम्

मत्तः कपालिकः सत्यसोमः स्वसहभागिन्या सह प्रविशति। तौ मदिराय एकस्मात् आपानशालायाः अपराम् आपानशालां प्रति भ्रमतः। सत्यसोमः भिक्षां याचमानः स्वकपालपात्रं नष्टम् इति जानाति। "मम कपालपात्रं कुक्कुरेण अथवा बौद्धभिक्षुकेन एव हृतम्" इति सत्यसोमः चिन्तयति। सः नासेनः नामकः बौद्धभिक्षुकं प्रति वदति "यद्यपि तव धर्मः मद्यमांसानृतादीनि प्रतिवारयति तथापि त्वं चोरः, मद्यसारपः, अनृती, मांसभक्षकः च असि। तव धर्मः अपि उपनिषदः चिन्ताः चोरयति। त्वया एव मम कपालपात्रं हृतम्। मम पात्रं मह्यम् देहि" इति। नागसेनः विवदते। पाशुपतः स्पर्धां प्रतिसेधितुं यतते। नागसेनः मदोत्कटाय सत्यसोमाय स्वभिक्षापात्रं ददाति। एकः वातरायणः प्रविशति। तस्य हस्ते कपालपात्रम् अस्ति। सः सारमेयात् कपालपात्रं गृहीतवान्। सत्यसोमः स्वपात्रं लब्ध्वा सन्तुष्यति।

 
कपालिकः सत्यसोमः

"https://sa.wikipedia.org/w/index.php?title=मत्तविलासम्&oldid=341371" इत्यस्माद् प्रतिप्राप्तम्