अयम् अपि प्रातःस्मरणीयेषु पर्वतेषु अन्यतमः । अयं मलयपर्वतः कर्णाटकराज्यस्य मैसूरुनगरस्य दक्षिणदिशि तिरुवाङ्कूरुतः पूर्वदिशि अस्ति । पश्चिमघट्टानां दक्षिणभागः अनेन नाम्ना निर्दिष्टः अस्ति । एतं पर्वतं “नीलगिरिः” इत्यपि वदन्ति । अस्मिन् पर्वते कृतमाला, ताम्रा, उत्पलावती, पुष्पजा इत्याख्याः नद्यः जन्म प्राप्य प्रवहन्ति इति वदति मत्स्यपुराणम्

मलयाचलः

वायुपुराणस्य ४८तमे सर्गे मलयपर्वतस्य वर्णनं कृतम् अस्ति । अस्मिन् पर्वते महता प्रमाणेन रजतं प्राप्यते इत्यपि उक्तम् अस्ति । अयं पर्वतः सर्वदा फलपुष्पपूर्णः एव भवति । एतं “महामलयः” इत्यपि वदन्ति । अस्मिन् पर्वते अगस्त्यमुनेः आश्रमः अस्ति । अनेकेषाम् ऋषिमुनीनाम् आश्रमाणि अपि आसन् अत्र । “त्रिकूटः” इत्याख्यः अपरः गिरिः अपि अस्य एव मलयपर्वतस्य कश्चन भागः । मलयपर्वतः श्रीगन्धवृक्षाणां निमित्तं सुप्रसिद्धः । चन्दनसुवासितः मलयमारुतः अस्माकं साहित्यकाराणां कवीनां वा निरन्तरप्रेरणास्रोतः । “चन्दन है इस देश कि माठि” “मलय पवन जिसके गुण गाथा” “मलयमारुतस्त्वदीय स्वागतं विदास्यति” इत्यादयः मलयप्रभावेण उद्भूताः पङ्क्तयः बहुस्फूर्तिकारिण्यः ।

अद्वैतसूत्रेण अस्माकं राष्ट्रस्य चतुरः कोणान् अपि योजितवान् जगद्गुरुः शङ्कराचार्यः अस्यैव पर्वतस्य उपत्यकायाम् अजायत । अस्पृश्यतायाः, आत्मघातुकपद्धतीनां च विरुद्धं समरं कृत्वा सामरस्यमयाय जीवनाय आत्मानम् अर्पितवान् नारायणगुरुः सञ्जातः अस्मिन्नेव पर्वतगर्भे । अस्य एव मलयपर्वतस्य गर्भभूतः “शबरिमलै” कोटिशः हिन्दूनाम् आराध्यदैवस्य अय्यप्पस्य वासस्थानम् । एवंविधैः बहुभिः विषयैः मलयपर्वतः अस्माकं श्रद्धाकेन्द्रं सञ्जातः अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मलयः&oldid=431975" इत्यस्माद् प्रतिप्राप्तम्