मसानबु फुकोका (Masanobu Fukuoka) कश्चन सुप्रसिद्धः कृषीवलः तत्वज्ज्ञानिः च आसीत् । भूमिः स्वयमेव सारयुक्तः भवति । सहजकृषिकरणे अधिकतया लाभः अस्ति इति निरूपितवान् । सहजकृष्याश्रयणे न्यूनधनेनैव कृषिकार्यं साधितुं शक्यते इति अस्य अभिप्रायः आसीत् । सर्वदा कृषिक्षेत्रे प्रयोगान् कुर्वन् आसीत् । अस्यैव सहजकृषिः जगत्प्रसिद्धा संजाता । स्वसिद्धान्तं साधितवान् फुकोका ।

मसानबु फ़ुकोका

जननम्, वैय्यक्तिकञ्च सम्पादयतु

मसानबु फुकोका १९१३ तमे संवत्सरे फेब्रवरिमासस्य २ दिनाङ्के जपान्-देशस्य 'ल्यो’ प्रदेशे अजायत् । सः 'कुरोसोवावर्यस्य' शिष्यः भवति । कृषिविज्ञानक्षेत्रे कुरोसोवावर्यस्य प्रसिद्धिः अस्ति । एषः 'जिब्रालिक'-प्रचोदकग्रन्थिं संशोधितवान् ।

कृषिः सम्पादयतु

फ़ुकोका संशधनाकेन्द्रे कार्यं कुर्वन् आसीत् । तस्मिन् समये अस्वस्थः जातः । अतः कार्यं त्यक्त्वा स्वग्रामं गतवान् । ग्रामे एव सः कृषिकार्यम् आरब्धवान् । फ़ुकोका नूतनजातीयसस्यानां आविष्कारं न कृतवान् । किन्तु, नूतनां कृषिपद्धतीं आविष्कृतवान् । अस्याः पद्धत्याः नाम नैसर्गिककृषिः उत स्वाभाविककृषिः इति । पिता कृषीवलः आसीत् । अनेन सह कार्यम् आरब्धवान् । सः क्षेत्रे नारङ्गफलस्य कृषिं आरब्धवान् । औषधानाम् अपेक्षा नास्ति, किन्तु सहजतया तासां सस्यानां वृद्धिः भविष्यति इति चिन्तितवान् । सस्यानां वृद्धिः न जाता । तेन कारणेन पिता कुपितः । कृषिकार्यं त्यक्त्वा कार्यन्तरम् अन्वेषणं करोतु इति उक्तवान् । अष्टवर्षाणि कृषिकार्यं विहाय कार्यान्तरे प्रविष्टः। तत्र अपि किमर्थं सस्यानां वृद्धिः सहजतया न जाता इति चित्राक्रान्तः आसीत् । सङ्कीर्णजातीयैः सस्यैः रासयनिककृषिपद्धत्या फलोदयः अधिकतया प्राप्यते स्म । कथं स्वाभाविककृषिपद्धत्या एतानि सस्यानि फलितानि भवन्ति? इत्यालोचयत् । अतः सः एवम् अलोचनां कृतवान्, "यानि सस्यानि स्वाभाविककृषिपद्धत्या फलितानि तानि एव आनीय स्वाभाविकतया एव तेषां फलोदयार्थं प्रयत्नः करणीयः । यदि सङ्कीर्णजातीयानि सस्यानि आनीय स्वाभाविककृषिपद्धत्या पोषणं क्रियते तर्हि तेषां नाशः भवत्येव ।“ इति । एतस्मात् निर्णयात् फ़ुकोका १९४५ तमे संवत्सरे कृषिकार्यार्थं ग्रामं प्रति पुनः गतवान् । स्वक्षेत्रे विनूतनान् क्रमान् उपयुज्य कृषिकार्यम् आरब्धवान् ।

कृतयः सम्पादयतु

अनेन रचिते पुस्तके,

  • ओन्-स्ट्रारेवूल्यूषन्
  • दि न्याचुरल् वे आफ़् फ़ार्मिङ्ग्

कृषितत्त्वानि सम्पादयतु

अस्य कानिचन कृषितत्वानि एवं सन्ति ।

  • १भूमेः कर्षणं न करणीयम् । कर्षणेन यथा भूमेः स्थितिः भविष्यति तथैव सस्यानां मूलानि भूमौ गत्वा सहजतयैव भूमेः स्थितिः भविष्यति इति अस्य अभिप्रायः । नैकाः सूक्ष्माणवः निरन्तरतया भूमेः फलवत्ततां वर्धयन्तः भवन्ति ।
  • २ (रासयनिक)औषधानाम् उपयोगः न करणीयः । एतेषां उपयोगेन भूम्यै हानिः भविष्यति इति ।
  • ३ स्तम्बघनानां निर्मूलनं न करणीयम् ।
  • ४ क्रिमिनाशकानाम् उपयोगः न करणीयः ।

पुरस्काराः सम्पादयतु

  • १९८८ तमे संवत्सरे विश्वभारती विश्वविद्यालयस्य "देसिकोट्टम्" पुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे रामन् म्याग्सेसे पुरस्कारं प्राप्तवान् ।
  • १९७७ तमे संवत्सरस्य मार्च्-मासस्य २६ तमे दिनाङ्के "अर्थ कौन्सिल् पुरस्कारं प्राप्तवान्" (Earth Council Award) ।

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मसानबु_फुकोका&oldid=481721" इत्यस्माद् प्रतिप्राप्तम्