मगोडुजलपातः (Magodu Falls) कर्णाटकराज्यस्यउत्तरकन्नडमण्डलस्य यल्लापुरौपमण्डले मागोडु इति ग्रामस्य समीपे काननमध्ये अस्ति । अत्र बेड्तिनदी १३७पादपरिमितौन्नत्यात् पतति । एषः त्रिपथगः जलपातः यल्लापुरपत्तनतः २४ कि.मी.दूरे, शिरसिपत्तनतः ४० कि.मी.दूरे काननमध्ये अस्ति । राजधानीतः शिरसिपर्यन्तम् अथवा यल्लापुरपर्यन्तं लोकयानानि सञ्चरन्ति । ततः भाटकयानेन जलपातस्य अतिसमीपं गन्तुं शक्यते । राजधानीतः रेल् यानेन गन्तुम् इच्छति चेत् हुब्बळ्ळीपर्यन्तं गत्वा ततः लोकयानेन यल्लापुरं प्राप्तुं शक्यते । हुब्बळ्ळितः अङ्कोला गमनमार्गे (एन्.एच् ६३) यल्लापुरतः ५ कि.मी. अग्रे मगोड् क्रास्-तः १९ कि.मी. सङ्क्रम्य जलपातस्थानं प्राप्तुं शक्यते । यल्लापुरपत्तनतः गन्तुं सुगमः मार्गः अस्ति । विविधासु दिशासु वीक्षणगोपुराणि निर्मितानि । जलपातस्य मूलं कन्दरं च गन्तुं दुस्साध्यम् अस्ति । अतिसमीपं गन्तुं १ कि.मी.सोपानमार्गः प्रकल्पितः । किन्तु जलपातस्थले आहारपानीयव्यवस्था नास्ति एव । निसर्गधाम इति रेसोर्ट् मध्ये सामान्यसुखव्यवस्था अस्ति । वस्तुं शक्यते । अथवा बनान कौण्टि इति स्टार् रेसोर्ट् मध्ये अतिसुखव्यवस्थायां वासदिव्यवस्थां प्राप्तुं शक्नुवन्ति । उभावपि काननमध्ये रमणीये प्रदेशे स्तः । पूर्वमेव स्थलम् आरक्ष्य गतं चेत् सुकरं भवति ।

मगोडुजलपातः
"https://sa.wikipedia.org/w/index.php?title=मागोडुजलपातः&oldid=360953" इत्यस्माद् प्रतिप्राप्तम्