यत्करोषि यदश्नासि...

भगवद्गीतायाः श्लोकः ९.२७


श्लोकः सम्पादयतु

 
गीतोपदेशः
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः सम्पादयतु

यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ २७ ॥

अन्वयः सम्पादयतु

कौन्तेय ! यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि तत् मदर्पणं कुरुष्व ।

शब्दार्थः सम्पादयतु

कौन्तेय = कुन्तीपुत्र
यत् करोषि = यत् कर्म आचरसि
यत् अश्नासि = यद्वस्तु खादसि
यत् जुहोषि = यत् हुतं करोषि
यत् ददासि = यद्वस्तु यच्छसि
यत् तपस्यसि = यत् तपः चरसि
तत् = तत् सर्वम्
मदर्पणम् = मदर्पितम्
कुरुष्व = विधेहि ।

अर्थः सम्पादयतु

अर्जुन ! त्वं यत् करोषि, यत् खादसि, अग्नौ यद् अर्पयसि, यत् प्रयच्छसि, यच्च तपः चरसि तत्सर्वं वासुदेवाय इति बुद्ध्या मह्यं समर्पय । एतेन ते श्रेयो भविष्यति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यत्करोषि_यदश्नासि...&oldid=418745" इत्यस्माद् प्रतिप्राप्तम्