यशोधरभट्टः
रसप्रकाशसुधाकरकर्ताऽयं यशोधरः पद्मनाभसूनुः, श्रीगौड (श्रीगोळ) ब्राह्मणजातीयः, सौराष्ट्र (काठियावाड-सोरठ) देशान्तर्गतजीर्णदुर्गाख्यनगरनिवासी चासीदिति तेनैव ग्रन्थान्ते उक्तादात्मवंशादिवर्णनात्प्रतीयते । श्रीगौडब्राह्मणानां वसतिश्च संप्रति सौराष्ट्रदेशे गुर्जरदेशे चोपलभ्यते । जीर्णदुर्गनगरं च संप्रति 'जुनागढ' इति नाम्ना प्रसिद्ध्यति । स चायं यशोधरः ख्रिस्तीय त्रयोदशशताब्दयां समजनीति 'डा. प्रफुल्लचन्द्रराय' इत्येतैः भारतीयरसायनशास्त्रेतिहासनामके ग्रन्थे प्रतिपादितम् । रसरत्नसमुच्चयकर्ता वाग्भटेन च स्वग्रन्थे बहवो विषया अस्मान्थादुद्धृताः । ग्रन्थेऽस्मिन् रसस्याष्टादशसंस्काराः, रसबन्धभस्मविधानं, स्वर्णादिधातुमहारसोपरस-रत्नादीनां लक्षण-गुण-शोधन-मारणादिकं, एकशतरसप्रयोगाः, यन्त्र-सूषा-पुटादीनां लक्षणानि, रसौषध्यादयः, धातुकौतुकं, वाजीकरणशुक्रस्तम्भयोगाश्चेत्यादयो रसशास्त्रप्रतिपाद्याः प्रायः सर्वेऽपि विषया नातिसंक्षेपविस्तराभ्यां अतिविशदतयोपवर्णिताः सन्ति । अतोऽयं ग्रन्थोऽल्पेनायासेन रसशास्त्रतत्त्वज्ञाने भिषजां, रसशास्त्रे व्युत्पित्सूनां छात्राणां चातीवोपयुक्तो भविष्यति। ग्रन्थस्यास्य मुद्रापणार्थ आदर्शपुस्तकद्वयमुपलब्धम् । एकं अस्मत्पितृव्याणां वैद्यगङ्गाधरशर्मणां संग्रहालयस्थं, अपरं च सोलापुरनगरवास्तव्यानां 'नानावैद्य' इति प्रसिद्धानां संग्रहस्थम् । ग्रन्थश्वायं व्याकरणदृष्ट्या काव्यदृष्ट्या च दोषबहुल आसीत् । तस्य संशोधने चास्मत्परमसुहृदां व्याकरणन्यायसाहित्याद्यनेकशास्त्रावगाहनगम्भीरमतीनां पं० रमापतिमिश्राणां साहाय्येन यथामति कृतो यत्नः । संदिग्धस्थलेषु च रसेन्द्रचूडामणिरसरत्नसमुच्चयादिग्रन्थसाहाय्येन टिप्पणमपि दत्तम् । ग्रन्थादौ सुविस्तृता विषयानुक्रमणिकाऽपि दत्ता । एवं पुस्तकस्यास्य संशोधनादौ यावच्छक्यं श्रमः कृतस्तथाऽपि मनुष्यत्वसम नियताशमप्रमादादिदोषाज्जातं स्खलनं काप्युपलभ्येत चेगुणैकपक्षपातिभिर्विद्वद्वथैः संशोधनीयं क्षन्तव्यश्चाहमित्यभ्यर्थये