यस्य नाहङ्कृतो भावो...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
- हत्वापि स इमान् लोकान्न हन्ति न निबध्यते ॥ १७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
सम्पादयतुयस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥
अन्वयः
सम्पादयतुयस्य अहङ्कृतः भावः न, यस्य बुद्धिः न लिप्यते सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते।
शब्दार्थः
सम्पादयतु- अहङ्कृतः = अहं कर्ता इति
- भावः = अभिप्रायः
- बुद्धिः = अन्तःकरणम्
- लिप्यते = कलुषी - भवति
- लोकान् = प्राणिनः
- हत्वा = विनाश्य
- हन्ति = नाशयति
- निबध्यते = बद्धो भवति ।
अर्थः
सम्पादयतुयस्य सर्वेषां कर्मणां कर्ता अहं न इति अभिप्रायो वर्तते, यस्य च अन्तःकरणम् इदम् इष्टम् इदं च अनिष्टमिति विचार्य कर्मसु न प्रवर्तते सः चेतनान् मारयन्नपि न मारणप्रयुक्तं पापं प्राप्नोति । तस्मात् सः कदापि न संसारे बद्धो भवति ।