यो मां पश्यति सर्वत्र...

भगवद्गीतायाः श्लोकः ९.३०

श्लोकः सम्पादयतु

 
गीतोपदेशः
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः सम्पादयतु

यः मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥

अन्वयः सम्पादयतु

यः मां सर्वत्र पश्यति सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ।

शब्दार्थः सम्पादयतु

यः = यः पुरुषः
माम् = माम्
सर्वत्र = सर्वप्रदेशेषु
पश्यति = ईक्षते
सर्वं च = निखिलमपि
मयि = परमात्मनि
पश्यति = अवलोकयति
तस्य = तस्य पुरुषस्य
अहम् = ब्रह्मरूपः अहम्
न प्रणश्यामि = न परोक्षः भवामि
सः च = सोऽपि
मे = मम
न प्रणश्यति = न परोक्षः भवति ।

अर्थः सम्पादयतु

यः सर्वेषु भूतेषु मां पश्यति, मयि सर्वमपि भूतजातं पश्यति तस्य कदापि अहं परोक्षतां न गच्छामि । सोऽपि मम परोक्षतां न गच्छति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु