पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । इदं रागीधान्यम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् अपि सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लगुद्धकलायां निपुणाः प्रायः रागीपिण्डम् एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते ।

विभिन्नानां वर्णानां रागीधन्यम्
रागीपिण्डम्
रागीश्राणा

कर्णाटकस्य चित्रदुर्गमण्डले, बेङ्गलूरुमण्डले, मैसूरुमण्डले च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः इत्यागीनि रागीधान्यस्य अन्यानि नामानि । रागीपिष्टेन श्राणा, पर्पटः, अवदंशः, रोटिका पिण्डं च निर्मीयते । शिशूनां शरीरस्य वृद्ध्यर्थं रागीश्राणां निर्माय खादयन्ति । एतत् रागीधान्यं चूर्णीकृत्य क्षीरेण सह वा जलेन सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव यत् पिबन्ति तत् रागीपानीयम् इति उच्यते । यद्यपि रागीधान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम्

दृश्यताम् सम्पादयतु

अधिकविवरणार्थं रागीधान्यम् इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=रागीपिष्टम्&oldid=361498" इत्यस्माद् प्रतिप्राप्तम्