राजविद्या राजगुह्यं...
भगवद्गीतायाः श्लोकः ९.२
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
- प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
सम्पादयतुराजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥ २ ॥
अन्वयः
सम्पादयतुइदं राजविद्या राजगुह्यं पवित्रम् उत्तमं प्रत्यक्षावगमं धर्म्यं कर्तुं सुसुखम् अव्ययम् ।
शब्दार्थः
सम्पादयतु- इदम् = एतद् ज्ञानम्
- राजविद्या = उत्तमविद्या
- राजगुह्यम् = अतीव गोप्यम्
- पवित्रम् = पावनम्
- उत्तमम् = श्रेष्ठम्
- प्रत्यक्षावगमम् = स्फुटबोधम्
- धर्म्यम् = धर्मोपेतम्
- कर्तुम् = आचरितुम्
- सुसुखम् = अक्लिष्टम्
- अव्ययम् = अविनाशि ।
अर्थः
सम्पादयतुउपासनसहितं यत् इदं ज्ञानमस्ति तत् विद्यासु श्रेम्, गोपनीयेषु अपि श्रें पावनं च । किञ्च अस्य प्रतीतिरपि स्फुटा भवति । तादृशमिदं सुखेन आचरणयोग्यम् अनश्वरं च ।