राजशेखरः (Rajashekhar) स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् । अयं राजशेखरो महाराष्ट्रदेशीय अकालजलदस्य पौत्रः दर्दुकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियकन्यां चौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा- ‘आग्रहपरिग्रहादपि पदस्थैर्व्यवसायः, तस्मात्पदानां परिवृत्तिवैमुख्यं पाक इति वामनः । ‘इयमशक्तिर्न पुनः पाकः’ इत्यवन्तिसुन्दरी । हेमचन्द्रः देशीयनाममालायाम् अवन्तिसुन्दरीकृतं ‘देसीयशाब्दकोषम्’ स्मृतवान्, तथाऽवन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।

महाराष्ट्रदेशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलंकृतवान् । एतदाश्रयदातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कञ्चन नृपमप्याश्रयत् । यदादेशेन विध्दशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थितः यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।

एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः ख्रीष्टनवमशतकस्यावसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ १०३, १०७ ख्रीष्टाब्दयोरुत्कीर्णौ, नवमशतकोत्पन्नमानन्दवर्धनमयमुध्दरति, मुञ्जस्य (९७५-९९३) कृपाश्रयेण धनञ्जयेन चायं स्मर्यते, (सर्वमपीदम्मदुक्तमनुमोदयति) ।

राजशेखरस्य परिचयःसम्पाद्यताम्

अयम् एकः संस्कृतकविः, आलङ्कारिकः शास्त्रकारश्च आसीदिति पण्डिता आमनन्ति । क्षत्रियकुलावतंसस्य चौहानवंशस्य अनर्घ्यरत्नम् " अवन्तिसुन्दरी" इति कन्यारत्नम् अस्य कलत्रम् । राजशेखरः यायावरवंशीयः इति इतिहासः ब्रवीति । एतस्य पिता दुहिकः(दुर्दुकः), माता शीलवती । क्रि.शक नवमशताब्दान्ते दशमशताब्दादौ वा महाराष्ट्रप्रदेशे एषः आसीदिति ज्ञायते । एतेन नाटकान्यपि विरचितानि, अतः ’नाटकान्तं कवित्वम्’ इतिलोकोक्त्यनुसारं स्वस्य कवित्वम् प्रत्यपादयत् । क्रिस्तशके नवमे शतमाने ई.८८४तः ९९१ संवतः मध्यकाले राजशेखर आसीदिति इतिहासज्ञाः अभिप्रयन्ति । अयं दशमे शतमाने आसीदिति भाण्डारकरपण्डितस्याभिप्रायः । महाराष्ट्रम् अस्य जन्मस्थानम् । एष कान्यकुब्जे राज्ञः महेन्द्रपालस्य आस्थाने कविरासीत्, अपि च यायावरकुलोत्पन्नस्य अकालजलदनाम्नः अलब्धकृतेः कवेः प्रपौत्र आस इत्यपि तस्यैव ग्रन्थद्वारा ज्ञातुं शक्यते । यतः बालरामायणे स्वयम् अकालजलदं स्तौति, यथा- " स मूर्तो यत्रासीद् गुणगण इवाकालजलदः, सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते तरल कविराजप्रभृतयो, महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेः अकालजलदस्य चतुर्थो दौर्दुकिः (प्रपौत्रः) शीलवतीसूनुः उपाध्यायः श्रीराजशेखरः" इति । अयं ब्राह्मणो वा क्षत्रियो वा इति विषये साहित्यविमर्शेषु महती चर्चा प्रवृत्ता दृश्यते ।

राजशेखरस्य कृतयःसम्पाद्यताम्

कर्पूरमञ्जरी(सट्टकम्) सट्टकलक्षणं तूक्तम् भावप्रकाशः नाम्नि ग्रन्थे यथा- सैव प्रवेशकेनापि विष्कम्भेन विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा । प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् ॥ इति । पूर्णतया प्राकृतभाषायां विरचितमिदं सट्टकप्रकारे विरचितम् नाटकम् । अत्र राजाऽपि प्राकृतभाषायामेव सम्भाषते । कर्पूरमञ्जरीति प्रसिद्धायाः विदर्भराजपुत्र्याः विवाहः चण्डपालनाम्ना सह कथं समभवदिति कथाऽत्र वर्णिता, या कथा तु पूर्वम् अपराजितनाम्ना कविना निबद्धासीदिति राजशेखरेणैव गीयते । अस्मिन्नाटकेऽनेन कविना प्रस्तावनायां हालः हरिचन्द्रः कविराजः इत्यादयः पूर्वकवयः स्मर्यन्ते । एषु कविराजः राघवपाण्डवीयम् नाम्नः द्विसन्धानकाव्यस्य कर्ता, राजशेखरस्य पूर्वपुरुषश्च । एष कविराजम् ,बालकविः, इति उपज्ञापयति । एवं च ’बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः’ इति वदन् कविराजः निर्भयनाम्नः राज्ञः गुरुरासीदिति ज्ञापयति । आत्मानं "रजनीवल्लभशिखण्डः" अर्थात् रजनीवल्लभः=चन्द्रः (राजः) स एव शिखण्डः शेखरम् यस्य सः रजनीवल्लभशिखण्डः = राजशेखरः । इति निर्दिशति ।
बालभारतम् इत्येतदपि नाटकम् । ’प्रचण्डपाण्डवम्’ इत्यस्य अपरं नाम । एतस्य नाटकस्य अङ्कद्वयमात्रं लब्धम् । आधुनिकैः प्रकाशकैः कृताः काश्चित् टिप्पणीः अतिरिच्य एतस्य काऽपि टीका नोपलभ्यते । अस्य प्रस्तावनयाऽवगम्यते यत् कान्यकुब्जस्य निर्भयो नाम राजा, तस्य पुत्रः महीपालदेवश्च राजशेखरस्य शिषावास्ताम् इति ।
बालरामायणम् एतन्नाटकम् रामायणकथाधारितम् । अत्र ’बाल’शब्दः लघुपर्यायः, न तु शिशुपर्यायः इति भाति । यतः इदमपि नाटकम् प्रौढबन्धैः निबद्धम् । इदम् मूलमात्रम् लब्धम्, न तु सव्याख्यानम् । काव्यशास्त्रे औचित्यविचारचर्चाविषये भोजः स्वकीये ग्रन्थे शृङ्गारप्रकाशः इत्याख्ये बालरामायणस्य वाक्यमुदाहरति यथा-तत्र प्रबन्धे दोषहानम्, अनौचित्यपरिहारेण; यथा मायाकैकेयी-दशरथाभ्यां रामः प्रवासितः; न मातापितृभ्याम् इति निर्दोषः दशरथे इति ।
विद्धशालभञ्जिका(नाटिका) अस्य नाटकस्य कथा का? इति मया इतोऽपि न ज्ञातम् । नारायणदीक्षितनाम्ना पण्डितेन कृता टीका विद्यत इति श्रुतम् ।
काव्यमीमांसा अयम् अलङ्कारशास्त्रग्रन्थः । प्रतीतानाम् अप्रतीतानां च कवीनां काव्येषु प्रयुक्तानि पदानि पद्यानि च औचित्यानौचित्यविमर्शनिकषोपले सङ्घर्ष्य अनेकेषां काव्यानां सौवर्णीम् कान्तिम् समपादयत् । अष्टमे शतमाने यशोवर्मनामा कविः स्वस्य नाटके रामाभ्युदयनाम्नि पात्रौचित्यं पुष्टिः इति प्रथमतया प्रस्तावरूपेण औचित्यम् इति पदम् प्रायुङ्त । तदनु ये य आलङ्कारिकाः क्षेमेन्द्रपर्यन्तम् अलङ्कारशास्त्रोद्याने स्वग्रन्थपुष्पाणि व्यकासयन्, ते सर्वेऽपि "औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम्" इति क्षेमेन्द्रस्य वाक्यं विस्तरेण व्यवृण्वन् । काव्येषु वर्ण-शब्द-गुण-विषय-प्रबन्ध-प्रकरण-रीति-भावादिषु कविभिः ’औचित्यदृष्टिः’ प्रयोज्या इति खलु औचित्यसिद्धान्तस्य राद्धान्तः । तदयम् काव्येषु औचित्यस्य प्राधान्यं प्रतिपादयन् एतस्मिन् ग्रन्थे पूर्वाचार्याणाम् अभिप्रायान् क्रोडेकुर्वन् "उचितानुचितविवेको व्युत्पत्तिः" इति वदन् तस्मात् रसोचितशब्दार्थसूक्तिनिबन्धनः चारुः इति स्वमतम् विशदयति ।

राजशेखरस्य गरिमासम्पाद्यताम्

राजशेखरः संस्कृत-प्राकृत-पैशाच्यपभ्रंशाभिधासु चतसृष्वपि भाषासु निपुणो विद्वानत एव तस्मिन् कविराज इति संज्ञाऽन्वर्था । तन्मतानुसारेणैकाधिकभाषायां सफलकविरेव कविराज इति कथ्यते । राजशेखरस्य शब्दगुम्फनव्यग्रता तस्य शब्दकवित्वं प्रकाशयति, वर्णननैपुण्यं पुनस्तस्य तत्राप्यव्याहतमेव, यथा कर्पूरमञ्जर्याम् ।

                                         परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः
                                                      क्षतक्षारो हारो रजनिपवना देहपतनाः।
                                        मृणाली बाणाली ज्वलयति च जलस्तनुलतां
                                                       वरिष्ठा यद् दृष्टा कमलवदना सा सुनयना ॥

राजशेखरः विचक्षणः विनयशाली च । भाषाविषये कर्पूरमञ्जर्याम् अनेन कृतं निर्वचनम्, भाषाविषये कलहायमानानाम् आधुनिकानां कृते उपदेशायमानम् सत्, भाषाविचारे संस्कृतज्ञानां निरहङ्कारितां च द्योतयति । यथा-

प्राकृते पाठः यथा-
अत्थविसेसा ते चिअ सद्दा ते चेअ परिणमन्ता वि ।
उत्तिविसेसो कव्वं भासा जा होद्द सा होउ ॥
संस्कृतानुवादः यथा-
अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि ।
उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥

एवं वदता राजशेखरेण समाजस्वास्थ्याय अनुपमम् सूत्रमेकं निरमायि, भाषादुरभिमानिनः परिभावयन्, स्वयं च कीर्तिमेरुं समारोहत् । सः स्वस्य कृतिषु अनेकान् प्राक्तनकवीन् कीर्तयति । सचानेकैः कविभिः शास्त्रकारैश्च प्रस्तूयते । महान् आलङ्कारिकः क्षेमेन्द्रः स्वस्य औचित्यविचारचर्चा इति ग्रन्थे राजशेखरस्य कविताम् उदाहरति, यथा-

....सोऽयं सम्प्रति राजशेखरकविर्वाराणसीं वाञ्छति ॥ इति ।
सूक्तिमुक्तावल्याम्-" अकालजल्देन्दोः सा हृद्या वचनचन्द्रिका । नित्यं कविचकोरैर्या पीयते न च हीयते ॥(राजशेखरस्य)
"https://sa.wikipedia.org/w/index.php?title=राजशेखरः&oldid=395774" इत्यस्माद् पुनः प्राप्तिः