रालपल्लि अनन्तकृष्णशर्मा

रालपल्लि अनन्तकृष्णशर्मा

जन्म बाल्यं च सम्पादयतु

वैष्णवगणस्य किञ्चन ब्राह्मणकुटुम्बम् आसीत् । तस्य कुटुम्बस्य ज्येष्टः आसीत् कर्णमादकल कृष्णामाचार्यः इति । तेषां मातृभाषा तेलुगुअनन्तपुरमण्डलस्य दक्षिणभागे लघुग्रामःअस्ति रालपल्ली इति । कृषाण्माचार्यस्य १८९३ तमे वर्षे जनवरिमासस्य २३ दिनाङ्के एकः पुत्रः सञ्जातः। तस्य नाम अनन्तकृष्णशर्मा (Anantakrishnasharma) इति । सुष्ठुवर्धितः कृष्णशर्मा प्रौढावस्थायां श्रेष्ठ साहित्यरत्नः भूत्वा कीर्तिमान् अभवत् । सुसंस्कृतवातावरणे प्रवृद्धः अनन्तकृष्णशर्मा विद्वांसः, कविः,सङ्गीतकारः, बहुभाषापण्डितः, वाग्मिः, उत्तमः विमर्शकः, प्रबन्धरचनारः, साहित्यकारः च आसीत् ।अनन्तकृष्णशर्मा त्रयोदशे वयसि मैसूरुनगरस्य ब्रह्मतन्त्र-परकालमठे विद्याभ्यासम् अनुवर्तितवान् । लघुवयस्कस्य कृष्णशर्मंणः अन्तर्भूतं सामर्थ्यं मठाधीशः कृष्णब्रह्मस्वामी अलङ्कारशास्त्रं बोधितवान् । बाल्ये एव संस्कृतं पठितवतः शर्मणः स्वतन्त्रतया संस्कृतकाव्य रचनायाः अभ्यासः अभवत् । अत्यल्पे काले पाण्डित्यं प्राप्य विद्वद्जनानां गौरवादरस्य भाजनः अभवत् ।

संस्कृते सङ्गीते परिश्रमः सम्पादयतु

अनन्तकृष्णशर्मणः आबाल्यात् सङ्गीतविषये अभिरुचिः आसीत् । यदा सः मैसूरुनगरे असीत् तदा कवेः ख्यातसङ्गीतकारस्य च बिडारं कृष्णप्पस्य परिचयः अभवत् । तस्मिन् एव काले वीणावादकस्य शेषण्णस्य परिचयः अपि अभवत् । एवं सप्तदशे वयसि सङ्गीतक्षेत्रे तथा साहित्यक्षेत्रे प्रगतिं साधयित्वा महाराज- महाविद्यालयस्य प्रांशुपालस्य सर्.सि.आर्.रेड्डिमहोदयस्य दृष्टिपथे आगतवान् । तस्य कारणतः मैसूरुविश्वविद्यालये तेलुगु अध्यापकरूपेण उद्योगः प्राप्तः । तदा तेन इतोऽपि पदवी न प्राप्ता आसीत् । अध्यापकवृतिम् अनुवर्त्य १९४८ तमे वर्षे निवृत्तः जातः । अनन्तकृष्णशर्मणः तिरुपतिवेङकटेश्वर-ओरियन्टल्-रिसर्च-इन्स्टिट्यूट् इत्यत्र सङ्गीतशास्त्रविभागस्य प्रमुखरूपेण नियुक्तिः अभवत् । ताल्लपाकम् अण्णमाचार्यस्य कृतीः सम्पाद्य प्रकटीकरणस्य दायित्वम् एतस्य आसीत् । मध्ये स्थगितम् एतत् कार्यं उत्तमरीत्या समापितवान् । तदनन्तरं १९६२ तमे वर्षे एतस्मात् दायित्वात् निवृत्तः जातः ।

प्रशस्तयः सम्पादयतु

एतस्य पाण्डित्यं ज्ञात्वा आन्ध्रप्रदेशस्य साहित्य-अकाडेमी तथा केन्द्रसङ्गीतनाटक-अकाडेमी "कलाप्रपूर्णः” इति बिरुदा एतम् सम्मानितवन्तौ । मद्रास् म्यूसिक् अकाडेमीतः 'सङ्गीतकलानिधिः इति’ बिरुदं प्राप्तवान् । शर्मणः साहित्यसेवा अपारा । संस्कृतं, प्राकृतम्, तेलुगु, ,कन्नड इत्येतासु चतसृषु भाषासु पाण्डित्यं सम्पाद्य ग्रन्थान् रचितवान् । संस्कृते तेलुगुसारस्वतलोके च सः कृतपरिश्रमः आसीत् ।

कन्नडकृतयः सम्पादयतु

"गानकले”, "साहित्य -संस्कृति ” इति कन्नडभाषाया एतेन लिखिते कृती । बेङ्गळूरु नगरस्य कर्णाटकगानकलापरिषदः तथा सुब्रह्मन्यगोविन्दगानसभायाः सहयोगेन१९९४ तमे वर्षे जनवरिमासे रालपल्लि अनन्तकृष्णशर्मणः जन्मशताब्दिः दक्षिणकन्नडमण्डलस्य कुक्केसुब्रह्मण्यदेवालये प्राचलत् । कवेः कृते कर्णाटकतः प्राप्त्स्य गौरवस्य सङ्केतं द्योतयति एतत् । तिरुपतिवेङकटेश्वरविश्वविद्यालयतः शर्मणः कृते गौरवडाक्टरेट् प्रशस्तिः दत्ता अस्ति । एतस्य प्रसिद्धये तस्य बाल्ये प्राप्ता सांस्कृतिकपृष्टभूमिका,सांस्कृतिकप्ररम्परा, अध्यनशीलता, सूक्ष्मग्रहणशकक्तिः, उच्चस्तरीयारसिकता,विमर्शात्मकः दृष्टिकोनः, वैचारिकता, बहुभाषाज्ञानं च काराणम् इति वक्तुं शक्यते । मैसूरुमहाराज- महाविद्यालये कुवेम्पु, जी. पी.राजरत्नम्, एम्.वी.सीतारामय्यः इत्येते कन्नडसारस्वतलोकस्य धुरीणाः रालपल्लेः शिष्याः आसन् । एवं रालपल्लि अनन्तकृष्णशर्मा बहु प्रतिभान्वितः आसीत् । वर्गः:भाषानुबन्धः योजनीयः]] "

संपर्क सम्पादयतु

राळ्ळपल्लि अनन्त कृष्ण शर्मा