लकाराः
क्रियापदम् सम्पादयतु
वाक्ये क्रियाबोधकं पदं क्रियापदम् इति उच्यते । उदा - बालकः पाठं पठति । अत्र पठनक्रियां सूचयति 'पठति' इत्येतद् क्रियापदम् । संस्कृते क्रियापदं मूलरूपेण न भवति । क्रियापदस्य मूलरूपं धातुः इति उच्यते । पठति इत्येतस्य क्रियापदस्य मूलरूपम्/धातुः अस्ति पठ् । यथा प्रातिपदिकानां कृते विभक्तिप्रत्ययान् संयोज्य शब्दरूपाणि प्राप्नुमः तथा धातूनां कृते आख्यातप्रत्ययान् संयोज्य क्रियापदानि प्राप्नुमः । पठति इत्यत्र पठ-धातोः कृते 'ति' इयेषः आख्यातप्रत्ययः योजितः अस्ति ।
धातवः सम्पादयतु
संस्कृते धातवः द्विविधम्
- १ सिद्धधातवः
- २ साधितधातवः
मूलधातवः सर्वे सिद्धधातवः । उदा - पठ्, लिख्, नी, पा । साधितधातवः - मोचय्, जिज्ञास्, जाज्वल्, बाष्पाय् ।
संस्कृते २२०० धातवः सन्ति ।
एतैः धातुभिः सह ये आख्यातप्रत्ययाः योज्यन्ते ते द्विविधम् - 'परस्मैपद' 'आत्मनेपद' च ।
यैः धातुभिः सह आत्मनेपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते आत्मनेपदिनः इति उच्यन्ते ।
यैः धातुभिः सह परस्मैपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते परस्मैपदिनः इति उच्यन्ते ।
यैः धातुभिः सह द्विविध-आख्यातप्रत्ययाः अपि योज्यन्ते ते उभयपदिनः इति उच्यन्ते ।
पुरुषाः सम्पादयतु
धातुभिः सह आख्यातप्रत्ययानां योजनावसरे क्रियापदं कस्य सम्बद्धम् इति ज्ञात्वा योजनीयं भवति ।
स्वस्य सम्बद्धं चेत् - उत्तमपुरुषः।
पुरतः विद्यमानस्य सम्बद्धः चेत् मध्यमपुरुषः ।
अन्यस्य सम्बद्धः चेत् प्रथमपुरुषः भवति ।
दश लकाराः सम्पादयतु
संस्कृतभाषायां विभिन्नकालस्य अर्थस्य च सूचनार्थं दश विधाः आख्यातप्रत्ययाः संयोज्य क्रियापदानि रचयन्ति ।
सामान्यतः कालः त्रिधा विभज्यते ।
क्रियमाणं कार्यं सूचयितुं वर्तमानकालस्य क्रियापदानि उपयुज्यन्ते ।
कृतं कार्यं सूचयितुं भूतकालस्य क्रियापदानि उपयुज्यन्ते ।
करिष्यमाणं कार्यं सूचयितुं भविष्यत्कालस्य क्रियापदानि उपयुज्यन्ते ।
किन्तु संस्कृते कालः षोढा (६) विभज्यते ।
षट्-लकाराः इव चत्वारः अर्थाः सन्ति -
- लोट् - आज्ञार्थः
- लिङ् लकारः
3. लृङ् - सङ्केतार्थः
एते सर्वे लकारतः आरब्धाः इत्यतः एते दश लकाराः इति उच्यन्ते । तान् सुलभतया स्मर्तुं संस्कृते कश्चन श्लोकः विद्यते -
- लट् वर्तमाने लेट् वेदे भूते लङ् लुङ् लिटस्तथा ।
- विध्याशिषोश्च लिङ्लोटौ लुट् ऌट् ऌङ् च भविष्यति ॥