वामदेवसंस्कृतमहाविद्यालयः

उत्तरप्रदेशमध्यप्रदेशयो: केचनप्रथितयशसा जनपदा: बुन्देलखण्ड इतिनाम्ना प्रथिता: वर्तते। तादृशस्य बुन्देलखण्डस्य राजधानी बांदा जनपदनाम्ना प्रख्याता वर्तते। अथ च तस्मिनेव विद्यते एष: संस्कृत महाविद्यालय: ।

श्रीवामदेवसंस्कृतमहाविद्यालयः' बांदा जनपदस्य मुख्यालये महर्षिवामदेवस्य नगर्यां श्रीवामदेवेश्वरगिरि सन्निकटे स्थितो विद्यते। यस्य विद्यालयस्य स्थापना सन् 1872 तमे वर्षे श्रीसुक्खनलाल द्वारा अभवत्। तत्र संस्कृतस्य अनेकविषयाः यथा- साहित्यम्,ज्येतिषम्, कला, व्याकरणम् इत्यादयाः आचार्यैः पाठ्यन्ते। तत्र अनेके ज्येष्ठाः अध्ययनं कृत्वा संस्कृतस्य विविधक्षेत्रेषु प्रचार-प्रसारं कुर्वन्तः सन्ति। अस्मिन् महाविद्यालये प्रायशः 12 संस्कृतस्य विद्वांशः आचार्याः पाठ्यन्ते ते च विविधशास्त्रेषु निष्णाताः वर्तन्ते।

विभागाः सम्पादयतु

अस्मिन् महाविद्यालये ०६ विभागा: सन्ति तेषु प्रायशः 12 संस्कृतस्य विद्वांशः आचार्याः पाठ्यन्ते ते च विविधशास्त्रेषु निष्णाताः वर्तन्ते।

१.व्याकरणविभाग:।

२. साहित्यविभाग:।

३. ज्योतिषविभाग:।

४. वेदविभाग:।

५. आधुनिकभाषाविभाग: ।

६. आङ्गलभाषाविभाग: ।

कार्यपद्धतिः सम्पादयतु

विद्यालयस्य कार्यपद्धतिः दिनचरी च अत्यन्तसमीचीना वर्तते। संस्कृतविद्यालयाः संस्कृतमाध्यमेन विभिन्नानां विषयाणां ज्ञानप्रदातारः विश्वविद्यालयाः। प्राचीने भारतेविद्यालयानां स्वरूपं भिन्नम् आसीत्, तेषां सञ्चालनपद्धतिः च भिन्ना आसीत्। आधुनिके भारते विद्यापीठस्य स्थानं विद्यालयेन स्वीकृतम्। अतः विद्यालय-शब्देन पुरातनानां विद्यापीठानां सङ्कल्पना तु स्वीक्रियते, परन्तु प्रणालिः न।

पाठ्यक्रमः सम्पादयतु

अत्र पौरोहित्य-ज्योतिष-वास्तुशास्त्र-योग-संस्कृतसम्भाषण-सङ्गकाभिविन्यासपदविकानाम् अध्ययनम् आरब्द्धम्। तस्मिन्नेव सत्रे अनुस्नातक-साहित्यविभागः, आरब्धः। २०१४-१५ सत्रात् व्याकरण-दर्शन-ज्योतिष-पुराणविभागानां स्थापना अभवत्। विश्वविद्यालयस्यास्य अन्तर्भूततया ये महाविद्यालयाः सन्ति, तेषु साहित्य-व्याकरण-ज्योतिष-वेद-वेदान्त-धर्मशास्त्र-न्याय-पौरोहित्य-वास्तुशास्त्र-विषयाः पाठ्यन्ते। ततोऽधिकं गौणत्वेन, अनिवार्यत्वेन वा आङ्ग्ल-सङ्गणक-हिन्दी-इतिहास-समाजशास्त्रादयः विषयाः स्नातककक्षासु पाठ्यन्ते।

सहपाठ्यक्रमक्रियाकलापः सम्पादयतु

१. वेदाध्ययनस्वरपाठ:

२. अनुवादकक्ष्या

३. व्याकरणकक्ष्या

४. योग: प्रणायामश्च

५. संस्कृतसम्भाषणम्

६. व्याख्यानानि

७. कर्मकाण्डं देवपूजनम्

८. गणित-फलित जोतिषम्

९. सङ्गणकज्ञानम्

१०. आङ्गलभाषाया: विशिष्टकक्षा

या