प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नीलः प्रकाशः अन्यवर्णप्रकाशाद्विपरीतम् अथवा भिन्नम् अस्मात् काराणादाकाशः नीलवर्णः
सूर्यास्तसमयस्य दृश्यं यत्र वायुमण्डलस्य परतानि द्र्ष्टुं शक्नुमः

वायुमण्डलं (हिन्दी: वायुमण्डल, आङ्ग्ल: Atmosphere) विभिन्नवायूनां मिश्रणम् अस्ति । एभिः वायुभिः पृथिवी आच्छादिता वर्तते । अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते । पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते । वायुः वर्णहीनः, गन्धहीनः च भवति । यदा वायुः प्रवहति, तदा पवनः कथ्यते । पवनः अनुभवितुं शक्यते ।[१]

वायुमण्डलस्य सङ्घटनम्सम्पाद्यताम्

वायुमण्डलं वायुभिः, जलबाष्पेन, रजकणैः च निर्मितम् अस्ति । श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः । वास्तविकतया वायुमण्डलम् अनेकानां वायूनां मिश्रणं भवति । वायुमण्डले बहवः वायवः प्राप्यन्ते । यथा – नाइट्रोजन्, ऑक्सीजन्, कार्बन् डाई ऑक्साइड्, हीलियम्, ऑजोन्, ऑर्गान्, हाइड्रोजन् च । तेषु नाइट्रोजन्, ऑक्सीजन्वायुमण्डलस्य बृहत्तमेषु भागेषु प्राप्यते । अन्ये वायवः अल्पमात्रायां प्राप्यन्ते । वायुमण्डले रजकणाः अपि सन्ति ।[२]

वायुमण्डले स्थितानां वायूनां द्रव्यमानम् अधः लिखितम् अस्ति ।[३]

वायुमण्डलस्य संरचनासम्पाद्यताम्

वायुमण्डलं पृथक्-पृथक् घनत्वस्य, तापमानस्य च स्तरैः निर्मितम् अस्ति । पृथिव्याः स्तरे घनत्वम् अधिकं भवति । किन्तु औन्नत्ये सति घनत्वस्य क्षयः भवति ।

वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः सन्ति । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलं, बाह्यवायुमण्डलं, बहिर्मण्डलं च ।

क्षोभमण्डलम्सम्पाद्यताम्

इयं वायुमण्डलस्य महत्वपूर्णः स्तरः वर्तते । अस्य मण्डलस्य उच्चता प्रायः १३ कि. मी. अस्ति । सामान्यतः अस्य उच्चता १३ कि. मी. अस्ति । अस्मिन् मण्डले स्थिताः वायवः एव अस्मभ्यम् उपयुक्ताः वर्तन्ते । वर्षा इत्यादयः प्रक्रियाः अस्मिन् मण्डले एव भवन्ति ।[४]

इदं मण्डलं ध्रुवस्य समीपं ८ कि. मी., विषुवत्-वृत्ते १८ कि. मी. औन्नत्ये स्थितम् अस्ति । क्षोभमण्डलस्य उच्चता विषुवत्-वृत्ते सर्वाधिका वर्तते । यतः वायुप्रवाहेन तापस्य अधिकोच्चतायां संवहनं भवति । अतः एव संस्तरे रजकणाः, जलबाष्पः च उपस्थिताः सन्ति । अस्मिन् संस्तरे एव ऋतूनां परिवर्तनं भवति । अस्मिन् संस्तरे प्रति १६५ मी. औन्नत्ये १o सेल्सियस् न्यूनं भवति । जैविकप्रक्रियायै अयं स्तरः महत्वपूर्णः वर्तते ।[५]

क्षोभसीमासम्पाद्यताम्

क्षोभसीमा क्षोभमण्डलसमतापमण्डलयोः मध्यस्थः अस्ति । विषुवत्-वृत्ते क्षोभसीमायां वायोः तापमानं -८०o, ध्रुवे -४५o भवति । अत्र तापमानं स्थिरं भवति, अतः इयं क्षोभसीमा इति कथ्यते ।[६]

समतापमण्डलम्सम्पाद्यताम्

क्षोभमण्डलात् परं समतापमण्डलं स्थितम् अस्ति । इदं मण्डलं ५० कि. मी. पर्यन्तं विस्तृतमस्ति । इदं मण्डलं मेघेभ्यः, ऋतूनां परिवर्तनेभ्यः मुक्तं भवति । अतः वायुयानस्य परिवहने साहाय्यं भवति । अस्य मण्डलस्य वैशिष्ट्यम् अस्ति यत् अस्मिन् मण्डले ओजोन् वायोः स्तरं भवति । तेन कारणेन इदं स्तरं सूर्यस्य हानिकारकवायुभ्यः अस्मान् रक्षति ।[७]

मध्यमण्डलम्सम्पाद्यताम्

अयं वायुमण्डलस्य तृतीयः स्तरः वर्तते । समतापमण्डलस्य उपरि इदं मण्डलं स्थितम् अस्ति । प्रायः ८० कि. मी. पर्यन्तं विस्तृतं वर्तते । अन्तरीक्षात् आगताः उल्काः इदं मण्डलं प्रविश्य ज्वलन्ति ।[८]

अस्मिन् मण्डले उच्चतायां तापमानं न्यूनं भवति । ८० कि. मी. औन्नत्ये सति तापमानं -१००o भवति । मध्यमण्डलस्य उपरिस्तरः मध्यसीमा इति कथ्यते ।[९]

बाह्यवायुमण्डलम्सम्पाद्यताम्

बाह्यवायुमण्डले औन्नत्ये सति तापमानम् अपि तीव्रतया वर्धते । आयनमण्डलम् अस्य स्तरस्य एकः भागः वर्तते । इदं मण्डलं ८० तः ४०० कि. मी. पर्यन्तं विस्तृतम् अस्ति । आकाशवाण्याः सञ्चाराय इदं मण्डलम् एव उपयुज्यते । पृथिव्याः प्रसारिताः आकाशवाण्याः तरङ्गाः पृथिव्याम् अस्मात् मण्डलात् एव परावर्तिताः क्रियन्ते ।[१०]

अस्मिन् मण्डले विद्युत्युक्ताः (electric charged) कणाः प्राप्यन्ते, अतः इदं मण्डलम् आयनमण्डलम् अपि कथ्यते ।[११]

बहिर्मण्डलम्सम्पाद्यताम्

वायुमण्डलस्य उच्चतमं मण्डलं बहिर्मण्डलं वर्तते । हीलियम् हाइड्रोजन् इत्यादयः न्यूनभारवायवः अस्मात् मण्डलात् उपरि एव तरन्ति ।[१२] इदं सर्वोच्चतमं मण्डलं वर्तते, अतः अस्य मण्डलस्य अधिकं ज्ञानं न प्राप्यते । अस्मिन् मण्डले स्थिताः सर्वे घटकाः विरलाः सन्ति । ते सर्वे समयान्तरे बहिः-अन्तरीक्षे मिलन्ति ।[१३]

वायुमण्डलस्य तापमानम्सम्पाद्यताम्

प्रतिदिनं वयं वायुमण्डलस्य तापमानम् अनुभवामः । वायौ उपस्थितं तापस्य, शीतलतायाः च परिमाणं तापमानम् इति कथ्यते ।

वायुमण्डलस्य तापमानं दिवसे, रात्रौ च परिवर्तते, अपि तु ऋतूनाम् अनुसारेण अपि परिवर्तते । शीतर्तोः अपेक्षया ग्रीष्मर्तुः अधिकः उष्णः भवति ।

’आतपन’ एकः महत्वपूर्णः कारकः वर्तते । सः तापमानस्य वितरणं प्रभावितं करोति । सूर्यात् आगता ऊर्जा पृथिव्या अवरूध्यते । सा ऊर्जा आतपनम् इति कथ्यते ।

आतपनस्य मात्रा भूमध्यरेखातः ध्रुवपर्यन्तं न्यूनं भवति । अतः तापमानम् अपि तथैव न्यूनं भवति । अत एव ध्रुवः हिमाच्छादितः भवति । यदि पृथिव्याः तापमानम् अत्यधिकं वर्धते, तर्हि पृथ्वी अपि अत्यधिका उष्णा भवति । तेन कारणेन कानिचित् सस्यानि नोत्पद्यन्ते । ग्रामस्य अपेक्षया नगराणां तापमानम् अधिकं भवति । मध्याह्ने ऐसाफेल्ट् इत्यनेन निर्मिताः मार्गाः, कॉङ्क्रीट् इत्यनेन निर्मितानि, भवनानि च उष्णानि भवन्ति । रात्रौ इमे सर्वे ऊष्मायुक्ताः भवन्ति । नगरेषु उच्चभवनानि वायुं रुन्धन्ति । तेन कारणेन नगराणां तापमानं वर्धते ।[१४]

वायुमण्डलस्य उष्णशीतयोः भिन्न-भिन्नाः प्रकाराः सन्ति । प्रवेशिसौरकिरणेभ्यः पृथ्वी उष्णा भवति । तदनन्तरं पृथ्वी स्तरस्य निकटस्थस्य वायुमण्डलस्य स्तरेषु दीर्घतरङ्गरूपेषु तापस्य सञ्चरणं करोति । पृथिव्याः सम्पर्केण वायुः उष्णः भवति । इयं प्रक्रिया चालनम् (Conduction) इति कथ्यते । चालनम् इति तदैव भवति, यदा असमानतापिपिण्डद्वयं परस्परं सम्पर्के भवति । उष्णपिण्डतः शीतलपिण्डपर्यन्तम् ऊर्जायाः प्रवाहः चलति । ऊर्जायाः स्थानान्तरणं तावत् भवति, यावत् द्वयोः पिण्डयोः तापमानं समानं भवेत् । वायुमण्डलस्य अधस्थस्य स्तरस्य उष्णीकरणे चालन इति महत्वपूर्णं वर्तते ।

पृथिव्याः सम्पर्के आगताः वायवः धाराणां स्वरूपे लम्बवत् भवन्ति । तेन वायुमण्डले तापस्य सञ्चरणं भवति । वायुमण्डलस्य लम्बवत् तापनस्य इयं प्रक्रिया संवहन (Convention) इति कथ्यते । अयम् ऊर्जायाः स्नानान्तरणस्य एकः प्रकारः वर्तते । अयं क्षोभमण्डलं यावत् एव भवति ।

वायुमण्डलस्य क्षैतिजसञ्चलनेन उत्पन्नस्य तापस्य स्थानान्तरणम् अभिवहनम् (Advection) इति कथ्यते । लम्बवत् सञ्चलनस्य अपेक्षया वायोः क्षैतिजसञ्चलनं सापेक्षिकरूपेण अधिकं महत्वपूर्णं भवति ।

लघुतरङ्गरूपेण पृथिव्याः प्राप्तं प्रवेशिसौरविकिरणं पृथिव्याः स्तरम् उष्णं करोति । पृथ्वी स्वयम् उष्णीभूय एकः विकिरणपिण्डः भवति । तदा वायुमण्डले दीर्घतरङ्गरूपेण ऊर्जायाः विकिरणं कुर्वन्ति । अनया ऊर्जया वायुमण्डलम् अधस्थात् उष्णं भवति । इयं प्रक्रिया पार्थिवविकिरणम् इति कथ्यते ।

दीर्घतरङ्गदैर्घ्यविकिरणं वायुमण्डलीयवायुभिः कार्बन् डाई ऑक्साइड्, ग्रीन् हाऊस् वायुभिः च अवशुष्यते । अनेन प्रकारेण वायुमण्डलम् अप्रत्यक्षरूपेण पार्थिवविकिरणैः उष्णं भवति, न तु साक्षात् सूर्यतापेन । तदनन्तरं वायुमण्डलस्य विकीर्णनेन तापः अन्तरिक्षे सञ्चरितः भवति । अनेन पृथिव्याः स्तरस्य, वायुमण्डलस्य च तापमानं स्थिरं भवति ।[१५]

सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505318. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174507485. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505318. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174505318. 
"https://sa.wikipedia.org/w/index.php?title=वायुमण्डलम्&oldid=304517" इत्यस्माद् पुनः प्राप्तिः