विकर्णः

(विकर्ण: इत्यस्मात् पुनर्निर्दिष्टम्)


विकर्ण:

दुर्योधनस्य अनुजेषु अयम् अन्यतम:।द्यूतप्रसङ्गे द्रौपदी दुर्योधनेन जिता।तदा दुर्योधनं विरुद्ध्य, द्रौपद्या: पक्षत: युक्तिवादं कृतवान् एष:।दुर्योधनस्य अनुज: सन् अयं दुर्योधनमाक्षिपत् इति अस्य साहसम् एव आसीत्।युधिष्ठिर:द्यूते पराभूत:।तस्य स्वातन्त्र्यं नष्टम्।इदानीं द्रौपदीं पणयितुं तस्य अधिकार: कथम् इति अयं प्रश्न: तेन सभायां पृष्ट:।अनेन प्रश्नेन भीष्मद्रोणकृपाचार्या: अपि निरुत्तरा: जाता:।यदा दु:शासन: द्रौपद्या: वस्त्रम् आकर्षत् तदा विकर्ण: लज्जया अधोमुख:, निमिलितनेत्र: उपविष्ट:।द्यूतप्रसङ्गे स: यद्यपि द्रौपदीपक्षं समर्थितवान्, तथापि कुरुक्षेत्रे स: कौरवाणां पक्षत: महता उत्साहेन शौर्येण च युद्धं कृतवान्। तस्मिन् युद्धे भीमसेन: तं हतवान्।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=विकर्णः&oldid=435928" इत्यस्माद् प्रतिप्राप्तम्