यूथमुख्यः विक्रम बत्रा (९ सप्तम्बर १९७४ – ७ जुलायि १९९९) एकः भारतीयः सैन्याधिकारी आसीत्। तेन कारगिलयुद्धस्य शौर्यप्रदर्शनाय भारतस्य सर्वश्रेष्ठवीरत्वपुरस्कारेण परमवीरचक्रेण सम्मानितः जातः। तदा सः भारतस्य एकस्य दुष्करतमस्य पर्वतयुद्धस्य नेतृत्वं कृतवान्। भारतीयसेनया असक्तं पाकिस्थानसेनायाः आन्तरिकसन्देशे तस्मै शेरशाह (सिंहपतिः) इति उपाधिः प्रदत्तः।

कैप्टन विक्रम बत्रा
विक्रमबत्रा

प्रारंभिकजीवनं शिक्षा च

सम्पादयतु

विक्रमः ९ सप्तम्बर १९७४ तमे वर्षे हिमाचलप्रदेशस्य पालमपुरनगरे अजायत। तस्य पितुः नाम गिरधारीलालबत्रा यः राजकीयस्य विद्यालयस्य प्राचार्यः च मातुः नाम कमलकान्ता बत्रा या शिक्षिका आसीत्। सः तस्य यमजानुजात् विशालात् चतुर्दशनिमेषपूर्वम् उद्भूत्। तयोः मात्रा तौ लवः (विक्रमम्) कुशः (विशालम्) च उपनाम अकरोत् यतः सा श्रीरामस्य भक्ता आसीत्। विक्रमस्य द्वे स्वसारौ सीमा नूतन ( नीतूः) च आसीत्। तेन तस्य प्राथमिकशिक्षा तस्य मात्रा प्राप्तम्। तदा सः माध्यमिकस्तर यावत् पालमपुरस्य दयानन्दाऽङ्गलवैदिकविद्यालय पठितवान्। तेन तस्य विशिष्टद्वैतीयिकशिक्षा पालमपुरस्य केन्द्रीयविद्यालये प्राप्ता।

सः मेधावीछात्रः तीक्ष्णक्रीडकश्च आसीत्। सः युथ् पार्लियामेन्ट्री कॉम्पीटीसन् एतस्मिन् दिल्ल्यां स्वविद्यालयस्य प्रतिनिधित्वमकरोत्। सः कराटे पटललाने च अपि निपुणः आसीत्। १९९० तमे वर्षे सः तस्य यमजानुजेन सह स्वविद्यालयस्य प्रतिनिधित्वम् ऑल इण्डिया केवीएस नेशनल्स एतस्मिन् अकरोत्। सः कराटेक्रीडायां हरितापट्टिकाधारकः अपि आसीत्।

१९९२ तमे वर्षे सः द्वादशकक्षायाम् उत्तीर्णः भूत्वा चंडीगढ़स्य दयानन्दाऽङ्गलवैदिकमहाविद्यालये वैद्यकशास्त्रम् (BMSc) अधीतवान्। सः महाविद्यालये राष्ट्रीयकैडेटकौरस्य वायुपक्षम् अयुज्यत। अंतर्राज्यीयस्य राष्ट्रीयकैडेटकौरस्य शिबिरे सः वायुपक्षतः सर्वश्रेष्ठः युवशिशिक्षुः निर्णितः जातः।

सः तस्य राष्ट्रीयकैडेटकौरस्य वायुपक्षेण सह पिंजौर्वायुक्षेत्रे चत्वारिंशदिनात्मकं पैराटुप् परिशिक्षणम् आर्जत।

अग्रिमयोः द्वयोः वर्षयोः सः दयानन्दाऽङ्गलवैदिकमहाविद्यालये राष्ट्रीयकैडेटकौरस्य सेनापक्षस्य युवशिशिक्षुः आसीत्। सः स्वमहाविद्यालये युवासेवासंसर्गस्य अध्यक्षोऽपि आसीत्।

पश्चात् सः राष्ट्रीयकैडेटकौरे 'सी' प्रमाणपत्रम् अर्जयित्वा वरिष्ठान्वाधिकारिणः पदं प्राप्तवान्। १९९४ तमे वर्षे सः राष्ट्रीयकैडेटकौरस्य युवशिशिक्षुरुपेण गणतंत्रदिवसस्य खलूरिकायां भागं गृहितवान्। यदा सः गृहं प्रत्यागच्छत् तदा सः तस्य मातापितॄन् अवदत् सः सैनिकः भवितुम् इच्छति इति। तस्य मातामहः अपि भारतीयसेनायां सैनिकः आसीत्। १९९५ तमे वर्षे सः हांग्कांग्देशे पोतावलिनिगमे पोतवणिक् भवितुं चयनितः अभवत्। परन्तु सः स्वेच्छापरिवर्तनं कृत्वा तस्य मातरम् अवदत् —

धनं जीवने सर्वस्वं न भवति; मां जीवने किञ्चित् उच्चतरं करणीयः, किञ्चित् असाधारणं यत् मम राष्ट्राय गौरवं चाल्यात्।

तस्मिनेव वर्षे सः चंडीगढ़स्य दयानन्दाऽङ्गलवैदिकमहाविद्यालयेन स्नातकपदं प्राप्तवान्।


१९९५ तमे वर्षे स्नातकपदं प्राप्य सः चण्डीगढ़े पंजाबविश्वविद्यालये प्राविशत्। तत्र सः आङ्गलभाषायाः आचार्यम् (M.A English) इति अधीतवान् यतः सः सम्मिलितरक्षासेवायाः (CDS) परिक्षार्थं सिध्येत्। सः विश्वविद्यालये सायंकालस्य कक्षासु पठति स्म च प्रातः कश्चित् यात्रानिगमे शाखासंचालकरुपेण कार्यं करोति स्म।

पितः, अहं भवतः कृते भारः न भवितुम् इच्छामि। 

— सः स्वपितरम् कथितवान् आसीत्।

१९९६ तमे वर्षे सः सम्मिलितरक्षासेवापरिक्षायां सफलीभूत्वा प्रयागराजे‌ सर्विशेस् सीलेक्शन् बोर्ड् (SBB) एनेन चयितः। सः गौण्यक्रमे  प्रथम ३५ जनानां मध्ये आसीत्। एकवर्षानन्तरं सः भारतीयसैन्याकादमीं योक्तुं विश्वविद्यालय त्यक्तवान् ।

तस्य पितुः वचनानुसारेन —

विक्रमः स्वलक्ष्यं गेषितवान् आसीत्। सः धर्मपथाय स्वमार्गं गेषितवान् आसीत् यत् तं तस्य लक्ष्यं प्रति पुरेत् — एकां सेवां प्रति या सर्वोच्चा अद्भुता च।

सैन्यचरितम्

सम्पादयतु

१९९६ तमे वर्षे जून्मासे विक्रमेण देहरादूने भारतीयसैन्याकादम्याः मानेकशाव्सैन्यदले युक्तवान्। एकोनविंशतिमासिकः प्रशिक्षणं सम्प्राप्य तेन १९९७ तमे वर्षे दिसम्बरमासे षड्तिथौ भारतीयसैन्याकादम्यि उत्तीर्णः भूत्वा भारतीयसेनायां प्रतिनिधिपदं प्राप्तवान्। तेन जम्मूकाश्मीररायिफलस्य त्रयोदशे सैन्यदले (१३ JAK Rif) अयोजयत। ततः तेन मध्यप्रदेशस्य जबलपुरे सैन्यगुल्मविषयकाय प्रशिक्षणाय अप्रेषत। प्रशिक्षणम् एकमास यावत् अचलत्।

प्रशिक्षणान्तरं सः तस्य प्रथमं कार्यभारं जम्मूकाश्मीरस्य बारामुलामण्डलस्य सोपोर् प्रान्ते प्राप्तवान्। तत् प्रान्तं आतङ्कग्रस्तं क्षेत्रम् अस्ति। १९९८ तमे वर्षे मार्चमध्ये तेन मध्यप्रदेशस्य महूप्रान्ते पत्तिसैन्यविद्यालयं यूनः अधिकारिणः प्रशिक्षणाय प्रेषितः जातः। प्रशिक्षणं पञ्चमासं यावद् अचलत्। प्रशिक्षणान्तरम् अल्फापदं सम्प्राप्य सः सोपोर्प्रान्ते स्वसैन्यदलं युक्तः।

सोपोर्प्रान्ते विक्रमस्य कतिपय आतङ्किनः संमुखीबभूव। एकस्मिन् संयुगे विक्रमः स्वपत्तिभिः सह गहनारण्ये संघातयति स्म। ततः एकेन आतङ्किना निःसारिता गुलिका तस्य स्कन्धं स्पृष्ट्वा तस्य सहकारिणं हतवान्। सा गुलिका तस्मै आसीत् न तु तस्य सहकारिणे इति मत्वा सः तस्य पत्तिं आतङ्किनः ग्रसितुं निर्दिष्टवान् च प्रातः काल यावत् तैः सर्वान् आतङ्किनः हतवन्तः। विक्रमः तथापि प्रखिद्य तस्य अग्रजां दूरभाषेण कथितवान् आसीत्।

अग्रजे! सा(गुलिका) मह्यं आसीत् च अहं मम जनम् अहारयम्।

१९९९ तमे वर्षे विक्रमः कमांडोप्रशिक्षणाय कर्नाटकस्य बेळग्रामे प्रेषितः जातः यत्र तेन उत्तीर्णः। प्रशिक्षणं द्विमासपर्यन्तम् अचलत् अन्ते च सः परमपदेन सम्मानितः जातः।

यदा यदा सः पालमपुरे स्वगृहं प्रत्यागच्छत् तदा तदा सः न्यूगलकैफे एतम् अपि अगच्छत्।१९९९ तमे वर्षे विक्रमः अन्तिमवारं होलीपर्वे अल्पदिवसेभ्यः स्वगृहं प्रत्यागच्छत् । तदा  कैफे एतस्मिन् तं कोऽपि युद्धे सावधानः भवितुम् उक्तवान् । सः प्रत्युवाच

अहं त्रिरंगम् उत्तोलयित्वा वा त्रिरंगे वेष्टितः प्रत्यागमिष्यामि परन्तु अवश्यमेव प्रत्यागमिष्यामि।

स्वावकाशानन्तरं सः स्वसैन्यदले योक्तुं प्रत्यागच्छत्। जम्मूकाश्मीररायिफलस्य त्रयोदशं सैन्यदलं (१३ JAK Rif) ८ पर्वतविभागस्य १९२ पर्वतदलोधः काश्मीरे प्रत्युपद्रवकारीकर्माणः (CIOps) स्वावध्यानन्तरं उत्तरप्रदेशस्य शाहजहानपुरे गन्तुं निर्दिष्टवान्। सैन्यदलस्य अग्रिमं दलं यत् गुल्मपतिः योगेशकुमारजोशीवर्यस्य अधः आसीत् तत् जून्मासस्य पंचमदिनाङ्के यदा स्वगन्तवयम् अधिगतवान् आसीत् तदा युद्धस्य कृते द्रासनगरं गन्तुं निर्दिष्टवान् जातम्।

विक्रमः स्वपितरौ तस्य आवागनविषये सूचितवान् च तौ अचिंतायै कथितवान्। सः स्वपितरौ दशदिवसेषु एकवारं तु करोति स्म । अन्तिमं दूरभाषं सः १९९९ तमे वर्षे कृतवान् च कथितवान्

मातः! पूर्णतः कुशलोऽस्मि। चिंता मा कुरूत।

सः प्रतिनिधिपदात् यूथमुख्यपदं प्राप्तवान् अस्ति।

५१४० अंशस्योपरि आधिपत्यम्

सम्पादयतु

कारगिलयुद्धे ५१४० अंशस्योपरि आधिपत्यं स्थापयनस्य दायित्वं विक्रमस्य आसीत् । सेनाधिकारी यदा तस्मै दायित्वं यच्छन् आसीत्, तदा अधिकारी अवदत्, “विक्रम ! ध्यानेन कार्यं कुरु । सावधानो भव ।” इति । अधिकारिणः कथनस्य प्रत्युत्तरं यच्छन् विक्रमः अवदत्, “आर्य ! जानामि यत्, एतत् युद्धं यावत् अहं चिन्तयामि, तावत् सरलं नास्ति । परन्तु भवान् यावत् चिन्तयति, तावत् कठिनम् अपि नास्ति” इति । ततः सः, तस्य दलं च सप्तदशसहस्रोन्नतस्य पर्वतम् आरुह्य शत्रून् अमारयत् । ततः तैः ५१४० अंशे भारतीयत्रिरङ्गपताका आरोहिता । ततः “ये दिल माँगे मोर्..... पाकिस्थान इज़् नो मोर्” (एतत् हृदयम् अधिकम् इच्छति... पाकिस्थानम् इदानीं नास्ति) इत्यनेन जयघोषेण सः स्वदलेन सह ४८७५ अंशस्योपरि त्रिरङ्गम् आरोहयितुम् अगच्छत् । परन्तु ४८७५ अंशस्य स्थितिः अति विकटा आसीत् । ४८७५ अंशस्य सैन्यावासे शत्रूणाम् अतिकठोरम् आधिपत्यम् आसीत् । अतः विक्रमेण बुद्ध्या शत्रून् पराजेतुं योजना कृता । परन्तु तस्यां योजनायां प्राणस्य भयम् आसीत् । दलस्य योजना आसीत् यत्, “कोऽपि एकः सैनिकः शत्रूणां सम्मुखं गत्वा तैः सह युद्धं कुर्यात् । अन्ये सैनिकाः अपरमार्गेण शत्रुषु आक्रमणं कुर्युः” इति । विक्रमः शत्रुसेनायाः सम्मुखं युद्धं कर्तुम् उद्यतः । एतावता अन्ये सैनिकाः शत्रूणां नाशम् अकुर्वन् । परन्तु तावता विक्रमः हुतात्मा अभवत् ।

परमवीरचक्रम्

सम्पादयतु

१९९९ तमे वर्षे अगस्तमासस्य पञ्चादशदिनाङ्के विक्रमेन भारतस्य सर्वोपरि सैन्यसम्मानेन परमवीरचक्रेण सम्मानितः जातः। तस्य पित्रा गिरधारीलालबत्रावर्येण तस्य मृतपुत्राय एतत् पुरस्कारं तत्कालीनः राष्ट्रपतिः श्रीकोचेरिल्रामन्नारायणन्द्वारा गृहीतः।

चलितसंस्कृतौ

सम्पादयतु
  • २००३ तमस्य वर्षस्य चलचित्रं एल.ओ.सी कारगील यत् संपूर्णे कारगीलयुद्धे आधारितं च जयप्रकाशदत्तया निर्देशितम् अस्ति तस्मिन् चलचित्रे अभिषेकबच्चनेन विक्रमस्य भूमिका अभिनीतम्।
  • २०२१ तमस्य वर्षस्य जीवनीके चलचित्रे शेरशाह यत् विष्णुवर्धनेन निर्दिष्टम् च धर्माप्रोड्क्शन्स्काशैंटरटेन्मेंट एताभ्यां निर्मितौ एतस्मिन् चलचित्रे सिद्धार्थमल्होत्रया विक्रमस्य भूमिका अभिनीतः।

पराक्रमः

सम्पादयतु
  • विक्रमबत्रा भारते ये दिल् माँगे मोर्(एतत् हृदयम् अधिकम् इच्छति) एतस्यै घोषणायै अतिविख्यातः अस्ति। एषा घोषणा तस्य सैन्यदलस्य साफल्यं सूचकम् आसीत्।
  • सः एकस्मै साक्षात्काराय अपि विख्यातः यस्मिन् तेन कथितम् पाकिस्थानी सैनिकाः तस्य विषये‌ जानन्ति इति।
  • सः बहवः सीमाचिह्नान् तस्य नामकरणेन अपि सम्मानितः जातः। ४८७९ अंशस्योपरि ऐतिहासिकम् आधिपत्यम् इति कारणेन तस्य सम्माने तं पर्वतं तस्य नाम्ना अभवत्।
  • सर्विशेस् सीलेक्शन् बोर्ड् (SBB) एतस्मिन् ‘विक्रमबत्रा ब्लाक्’ नामधेयम् एकं सभागृहम् अस्ति।
  • जबलपुरसैन्यावासे एकं निवासक्षेत्रं ‘कैप्टन् विक्रमबत्रा इन्क्लेव्’ नाम्ना ज्ञापितः।
  • भारतीयसैन्याकादम्यि युवशिशिक्षूनां सहभाजनालयः ‘विक्रमबत्रा मेस्’ नाम्ना प्रसिद्धः।
  • चंडीगढ़स्य मातृसंस्थायां दयानन्दाऽङ्गलवैदिकमहाविद्यालये युद्धस्य वीरमृतकानां विक्रमोऽपि अभिव्याप्तः स्मारकः स्थितः।
  • पालमपुरस्य सर्वकारी विद्यालयस्य पुनर्नामकरणं शहीदकैप्टनविक्रमबत्राराजकीयमहाविद्यालयः इति अभवत्।
  • पालमपुरस्य स्टेडियम्शहीदकैप्टनविक्रमबत्रास्टेडियम्’ इति नामधेयम् अस्ति।
  • चंडीगढ़स्य पंजाबविश्वविद्यालये विक्रमस्य नाम्ना गृहान्तर्प्रक्षेपणक्षेत्रम् अस्ति।
  • भारतीयसैन्येन विक्रमस्य सम्माने तस्य २१तमं जयंत्यावसरे एकं लघुचलचित्रं प्रकाशितम् यस्मिन् तस्य प्रसिद्धा उद्घोषणा ये दिल् माँगे मोर्(एतत् हृदयम् अधिकम् इच्छति) आसीत् च सर्वायुवर्गैः “विक्रमबत्राऽहम्” इति कथन्ति स्म।
  • विक्रमस्य द्वाविंशी बलिदानस्य स्मृत्यै सैन्याधिपतिः योगेशकुमारजोशी प्रसिद्धस्य बत्राटॉप एतस्य उपरि सुखोयि-३० एम.के.आयि विमानेन उदडयत।
"https://sa.wikipedia.org/w/index.php?title=विक्रम_बत्रा&oldid=465934" इत्यस्माद् प्रतिप्राप्तम्