अङ्गजनपदः अपि प्राचीनभारतस्य १६ महाजनपदेषु अन्यतमः । गङ्गा-सरय्वोरन्तरे विद्यमान एष देशः पूर्वं स्वाम्भुवस्य मनॊः वंशे जातस्य ऊरुराजस्य पुत्रेण अङ्गेन स्थापितः । तपोमग्नस्य परमेस्वरस्य तपोभङ्गम् कर्तुम् उद्युक्तः मन्मथः अस्मिन्नेव स्थले हरस्य नेत्रग्निना दग्धः सन् पुनः स्वाङ्गानि प्रापत् इत्यतः अयम् अङ्गदेश इति नामाभजत इति पुराणी कथा । अस्य देशस्य अधुनतनकाले भागल्पुरम् इति नाम । राज्ञः बिम्बिसारस्य अवधिपर्यन्तम् एषः जनपदः मगधजनपदान्तर्गतः आसीत् इति | प्राचीनभारतस्य इतिहासे सर्वत्र अङ्गजनपदस्य विवरणं मगधविवरणेन सह एव युक्तम् अस्ति । अयम् अङ्गप्रदेशः तदानीन्तनकाले वाणिज्यस्य केन्द्रम् आसीत् । तत्रत्याः वणिजः नियतरूपेण आधुनिकनौकनाम् उपयोगं कुर्वन्ति स्म "सुवर्णभूमिं" प्रति गमनागमनाय । अथर्ववेदे प्रथमवारम् अङ्गजनपदस्य उल्लेखः दृश्यते । अत्रत्यविवरणानुसारं आर्येभ्यः पूर्वतनाः "जैनप्रज्ञापान"वर्गीयाः अङ्गेभ्यः तथा वङ्गेभ्यः अपि उच्चस्तरीयाः आसन् इति ।

अङ्गः
१६ जनपदान् दर्शयत् मानचित्रम्
"https://sa.wikipedia.org/w/index.php?title=अङ्गः&oldid=401058" इत्यस्माद् प्रतिप्राप्तम्