अन्ताराष्ट्रियवृद्धदिवसः

अन्ताराष्ट्रियवृद्धदिवसः ( /ˈəntɑːrɑːʃhtrɪjəvrdðədɪvəsəhə/) (हिन्दी: अन्तर्राष्ट्रीय वृद्ध दिवस, आङ्ग्ल: International Day of Older Persons) सम्पूर्णे विश्वस्मिन् अक्टूबर-मासस्य १ दिनाङ्के आचर्यते [१]। अस्मिन् दिने वरिष्ठनागरिकाणां, सम्बन्धिनां च सम्मानं क्रियते । वरिष्ठाणां हिताय चिन्तनम् अपि क्रियते । साम्प्रतं वृद्धसमाजः विफलीकरणेन अत्यधिकः ग्रस्तः वर्तते । यद्यपि वरिष्ठजनाः सर्वाधिकतया अनुभविनः भवन्ति, तथापि कोऽपि जनः तेषाम् अभिप्रायं, परामर्शं वा न स्वीकरोति । अतः “वयं प्रयोजनहीनाः स्मः” इति ते वृद्धजनाः अनुभवन्ति । अनेन कारणेन अस्माकं वृद्धसमाजः सर्वथा दुःखी एव दृश्यते । अतः वृद्धजनानां, वरिष्ठनागरिकाणां च सम्माननार्थम् अयं दिवसः सर्वकारेण निर्णीतः, उद्घोषितः च अस्ति ।

अन्ताराष्ट्रियवृद्धदिवसः
अन्ताराष्ट्रियवृद्धदिवसः
के आचरन्ति संयुक्तराष्ट्रसङ्घः
दिनाङ्कः १ अक्तूबर

आरम्भः सम्पादयतु

विश्वस्मिन् सर्वत्र वृद्धजनैः सह दुर्व्यवहारस्य आधिक्यं दृश्यते । अतः अस्य दुर्व्यवहारस्य शमनार्थं संयुक्तराष्ट्रेण १९९० तमस्य वर्षस्य दिसम्बर-मासस्य १४ (१४/१२/१९९०) दिनाङ्के निर्णयः कृतः यत् – “सम्पूर्णे विश्वस्मिन् प्रतिवर्षम् अक्टूबर-मासस्य १ (१ अक्टूबर) दिनाङ्के अन्ताराष्ट्रियवृद्धदिवसः आचरणीयः । १९९१ तमस्य वर्षस्य अक्टूबर-मासस्य १ (१/१०/१९९१) दिनाङ्के विश्वस्मिन् प्रथमवारम् अन्ताराष्ट्रियवृद्धदिवसः आचरितः । अनन्तरं प्रतिवर्षम् अयं दिवसः आचर्यते [२]

गोष्ठ्यः, सम्मेलनानि च सम्पादयतु

सर्वप्रथमम् अर्जेण्टिना-देशे वृद्धजनानां समस्यानां विषये संयुक्तराष्ट्रसभायाः आयोजनम् अभवत् । तस्यां सभायां वृद्धजनानां साहाय्यार्थं, लाभाय च चर्चा जाता । तस्याः सभायाः अनन्तरं बहुषु देशेषु वृद्धविषयकानि सम्मेलनानि अभवन् । १९९१ तमे वर्षे वृद्धविषयकानि बहूनि सम्मेलनानि जातानि । अतः तद्वर्षम् “अन्ताराष्ट्रियवृद्धवर्षं” आचरितम् आसीत् । तत्पूर्वं १९८२ तमे वर्षे विश्वस्वास्थ्यसङ्घटनेन अपि एकम् अभियानम् आरब्धम् आसीत् । “वृद्धावस्था को सुखी बनाइए” इति तस्य अभियानस्य घोषः (Slogan) आसीत् ।

संयुक्तराष्ट्रसङ्घेन अक्टूबर-मासस्य १ (१ अक्टूबर) दिनाङ्कः अन्ताराष्ट्रियवृद्धदिवसः उद्घोषितः अस्ति । सम्पूर्णे विश्वस्मिन् अस्य दिवसस्य आयोजनम् अपि क्रियते । वृद्धजनेभ्यः जनानां हृदि सम्मानस्य भावः, संवेदनायाः भावः च आगच्छेत् । वृद्धजनानां स्वास्थ्यविषयिणीनाम्, आर्थिकविषयिणीनां च समस्यानां निवारणम् अपि क्रियते । वृद्धावस्थान्तर्गतानां बहूनां रोगाणाम् ओषधीनाम् निर्माणम् अपि कृतम् । बहुषु स्थानेषु चिकित्सालयानाम् उद्घाटनम् अपि कृतम् ।

प्रायशः पाश्चात्यदेशेषु ये वृद्धजनाः आर्थिकसमस्यया ग्रस्ताः सन्ति, तेभ्यः वृद्धावस्थानिवृत्तिवेतनस्य व्यवस्था कृता अस्ति । तेन वृद्धजनानाम् आवश्यकतानां पूर्तिः भवति । साम्प्रतं पाश्चात्यदेशेषु वृद्धजनेभ्यः आर्थिकसमस्या न भवति । किन्तु इतः परम् अपि एका समस्या वर्तते – “एकाकिता” । यतः तेषां पुत्राः, परिवारजनाः च वयस्के सति पृथक् निवसितुं गच्छन्ति । सप्ताहान्ते, उत्सवे वा मेलनं भवति । रुग्णे सत्यपि सान्त्वनायै केऽपि पारिवारिकजनाः, स्वजनाः वा वृद्धजनानां समीपे न भवन्ति । सर्वदा ते आशां कुर्वन्ति । तथापि कोऽपि जनः तेषां सेवायै न गच्छति । अन्ते यदा तेषां मृत्युः भवति तदा सर्वे पाश्चात्तापं कुर्वन्ति । [३]

वृद्धजनानाम् अवहेलनम् सम्पादयतु

यथा कश्चन वृक्षः यावद् वर्धते, तावन्नमति, सः वृक्षः फलदः अपि भवति, तथैव वृद्धः अपि तावदेव विनम्रः, अनुभवी च भवति । किन्तु अद्यतनाः साक्षराः युवकाः वृद्धान् वृद्धाश्रमं प्रेषयन्ति । ते विस्मरन्ति यत् – “विश्वस्मिन् अनुभवस्य अपरः विकल्पः एव नास्ति । आत्मानुभवेन एव वृद्धैः स्वस्य संसारयात्रा निर्मिता । स्वगृहस्य निर्माणे यः जनः स्वस्य जीवनम् अपि त्यजति, तस्य वृद्धे सति युवकाः गृहात् निष्कासयन्ति । अनेन ज्ञायते यत् – “अस्माकं संस्काराः एव मृताः” । सामाजिकप्रतिष्ठायाः कारणेन एव वृद्धजनानां प्रति अन्यायः क्रियते ।

जीवने अनुभवाः सम्पादयतु

जनाः वृद्धावस्थायां नैकरोगग्रस्ताः कुर्वन्ति । विभिन्नरोगैः शरीरं शिथिलं भवति । किन्तु “वर्तमाने यः युवा अस्ति, सः भविष्यत्काले वृद्धः भविष्यति” इति निश्चितम् अस्ति । वरिष्ठनागरिकाः अस्माकं समाजस्य अमूल्याधाराः वर्तन्ते । अद्यतनः युवकवर्गः राष्ट्रस्य उन्नत्यै वरिष्ठनागरिकाणाम् अनुभवस्य लाभं प्राप्तुं शक्नोति । यदि जनः वृद्धजनानाम् अनुभवाधारेण कार्याणि कुर्यात्, तर्हि सफलतां प्राप्तुं शक्नोति ।

यजुर्वेदे उल्लेखः सम्पादयतु

शास्त्रेषु अपि वृद्धजनानां सम्माननस्य महत्त्वं प्राप्यते । “सन्ततिभिः मातापितॄणां सेवा, सम्मानं करणीयम्” इति अधः लिखितः मन्त्रः शिक्ष्यते –


यदापि पोष मातरं पुत्रः प्रभुदितो धयान् ।
इतदगे अनृणो भवाम्यहतौ पितरौ ममां ॥

अर्थः – याभ्यां (माता-पिता) स्वप्रयत्नैः अहं पालितः, तौ इदानीम् अशक्तौ अभवताम् । किन्तु अहं वयस्कः अस्मि । अतः अहं तयोः सेवां, सत्कारं च करोमि । ताभ्यां काऽपि समस्या, पीडा वा न भवेत् इति मे कर्त्तव्यम् अस्ति । अनेन प्रकारेण एव अहं तयोः ऋणात् मुक्तः भविष्यामि ।

अनेन प्रकारेण वृद्धानां सेवा करणीया । मनुस्मृतौ अपि भगवता मनुना उक्तं यत् -


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् [४]

अर्थः – यः जनः सदैव वृद्धजनानां सेवां, सत्कारं च करोति, अभिवादनं करोति च, तस्य आयुर्विद्यायशोबलानि चत्वारि वर्धन्ते । अतः वृद्धजनानां सेवा नित्यं करणीया ।

वृद्धजनानां सङ्ख्या सम्पादयतु

सम्पूर्णे विश्वस्मिन् वेगेन जनसङ्ख्या वर्धमाना अस्ति । किन्तु अस्मिन् वर्षे जन्ममाने न्यूनता अभवत् । अपरे पक्षे स्वास्थ्यचिकित्सायै सौकर्यैः वयसि वृद्धिः भवन्ती अस्ति । भारत-देशे १९४७ तमे वर्षे आयुषः माध्यमानं २७ वर्षं, १९६१ तमे वर्षे ४२ वर्षं, १९८१ तमे वर्षे ५४ वर्षं च आसीत् । साम्प्रतं ६५ वर्षम् आयुषः माध्यमानम् अभवत् । यतः चिकित्साक्षेत्रे सर्वत्र प्रगतिः जाता । इदानीम् अपि चिकित्साक्षेत्रं प्रगतिशीलं चास्ति ।

१९९१ तमे वर्षे भारते षष्टिलक्षोत्तरपञ्चकोटी (५ कोटी ६० लक्षं) जनाः वरिष्ठनागरिकाः आसन् । ते षष्ठीवर्षदेशीयाः वा तस्मादधिकावर्षदेशीयाः आसन् । भारतस्य प्रदेशेषु केरल-प्रदेशे सर्वाधिकाः वृद्धाः सन्ति । वृद्धानां जीवनम् अस्मभ्यं लाभकरं वर्तते । तेषाम् अनुभवैः अस्माकं जीवनं योग्यमार्गे गच्छति । वृद्धानां जनसङ्ख्या चिन्तनीया नास्ति, तेषां स्वास्थ्यम् एव चिन्तनीयम् अस्ति[३]

योजनाः प्रोत्साहनञ्च सम्पादयतु

भारतदेशे वृद्धानां सेवायै, रक्षणाय च सर्वकारेण नियमाः निर्मिताः । भारतस्य केन्द्रसर्वकारेण १९९१ तमे वर्षे वरिष्ठनागरिकाणाम् आयोग्यविकासाभ्यां प्रोत्साहनं कर्तुम् एका राष्ट्रियनीतिः निर्धारिता । अस्याः नीतेः मुख्योद्देश्यम् अस्ति यत् – “जनाः स्वस्मै, सहभागिने वा वृद्धावस्थायाः सौकर्याय प्रोत्साहिताः भवेयुः” इति । अस्यां नीतौ वृद्धजनानां संरक्षणार्थं परिवारान् प्रोत्साहितं कर्तुं प्रयासाः अपि कृताः ।

२००७ तमे वर्षे वरिष्ठनागरिकाणां पोषणार्थं नूतना योजना आरब्धा । अस्यां योजनायां वृद्धेभ्यः वृद्धाश्रमाणां स्थापना अभवत् । सर्वकारेण वृद्धाश्रमेषु चिकित्सकानां व्यवस्था अपि कृता । तथापि वृद्धाश्रमेषु वृद्धानां सङ्ख्यायां वृद्धिः भवन्ती अस्ति । अतः अनेन ज्ञायते यत् – “वृद्धाः उपेक्षिताः भवन्तः सन्ति” ।

समस्याः, समाधानानि च सम्पादयतु

वृद्धजनाः शरीरेण दुर्बलाः भवन्ति । ते किमपि दैहिककार्यं कर्तुम् असमर्थाः भवन्ति । अतः ते कस्मिँश्चित् अपि यन्त्रागारे, कार्यशालायां वा कार्यं कर्तुं न शक्नुवन्ति । यदि अर्थागमः न भविष्यति, तर्हि गृहसञ्चालनं कथं भवितुम् अर्हति । अतः तेभ्यः निवृत्तिवेतनस्य व्यवस्था अपेक्षिता वर्तते । ये वृद्धाः शारीरिकदृष्ट्या स्वस्थाः सन्ति, तेभ्यः लघुभारोपकरणानां व्यवस्था करणीया ।

वृद्धानां कल्याणाय प्रोत्साहनकार्यक्रमेषु चिन्तनं करणीयम् । तेन वृद्धानां जीवने उत्साहः समुद्भविष्यति । वृद्धेभ्यः रूचिकराः योजनाः योजनीयाः । किन्तु वृद्धानाम् अपि दायित्वमस्ति यत् - ते यूनां कार्येषु हस्तक्षेपं मा कुर्युः । केवलं स्वस्वास्थ्यस्य चिन्ता करणीया । सर्वदा साधारणं, स्वास्थ्यवर्धकं च आहारः गृहीतव्यः ।

कदापि उद्वेगग्रस्तः मा भवेत् इति चिन्तनीयम् । प्रतिदिनं नियमितरूपेण व्यायामः करणीयः । प्रातःकाले, सांयकाले च नित्यम् अटनं कर्त्तयम् । तेन तेषां शरीरं स्वस्थं, कार्यशीलं च भविष्यति । सर्वदा शान्तिमयं, सन्तुष्टिपूर्वकं, संयमितं च जीवनं यापनीयम् [३]

सन्दर्भाः सम्पादयतु

बाह्यसम्पर्काः सम्पादयतु