अब्बिजलपातः - अब्बि इत्युक्ते कर्णाटकभाषायां जलपातः । कर्णाटकस्य कोडगुमण्डलस्य केन्द्रं मडिकेरी । ततः ५कि.मी.दूरे एषः जलपातः अस्ति । राजधानीबेङ्गळूरुतः मडिकेरीपर्यन्तं लोकयानव्यवस्था अस्ति । ततः भाटकयानेन जलपातपर्यन्तं गन्तुं शक्यते । सामान्यतः ५००मी. काफीवाटिकामार्गे पद्भ्यां गम्यते चेत् सुन्दरं जलपातम् अवलोकयितुं शक्नुमः । १०७पादपरिमितात् औन्नत्यात् कावेरीनदी पतति । अब्बिजलपातः बेङ्गळूरुतः २५०कि.मी.दूरे, मङ्गळूरुतः १२०कि.मी.दूरे अस्ति । उपमण्डलकेन्द्रे मडिकेरिपत्तने वसतिगृहाणि इन्धनपूरणकेन्द्राणि, भोजनोपाहारगृहाणि सन्ति एव । समीपे एव मनोहरः अगस्थ्यपर्वतः, तलकावेरी इति कावेर्याः उद्भवस्थानम्, इरुप्पुजलपातः, भागमण्डलम्, बैलकुप्पे (टिबेटीयअधिवासकेन्द्रम्) इति दर्शनयोग्यस्थानानि सन्ति ।

अब्बिजलपातः
अब्बिजलपाततः जलं पतति

निर्देशाङ्कः : १२°२७′३२.४″ उत्तरदिक् ७५°४३′१०.५″ पूर्वदिक् / 12.459000°उत्तरदिक् 75.719583°पूर्वदिक् / १२.४५९०००; ७५.७१९५८३

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अब्बिजलपातः&oldid=479894" इत्यस्माद् प्रतिप्राप्तम्