अलीराजपुरमण्डलम् ( /ˈəlɪrɑːəpʊrəməndələm/) (हिन्दी: अलीराजपुर जिला, आङ्ग्ल: Alirajpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अलीराजपुरम् इति नगरम् ।

अलीराजपुरमण्डलम्

Alirajpur District
अलीराजपुर जिला
अलीराजपुरमण्डलम्
अलीराजपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे अलीराजपुरनगरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे अलीराजपुरनगरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि अलीराजपुरम्, जोबट, भाभरा
विस्तारः २,१६५.२४ च. कि. मी.
जनसङ्ख्या (२०११) ७,२८,९९९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ३६.१०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-५०.५%
Website http://alirajpur.nic.in/

भौगोलिकम् सम्पादयतु

अलीराजपुरमण्डलस्य विस्तारः २,१६५.२४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे झाबुआमण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणम् अलीराजपुरमण्डलस्य जनसङ्ख्या ७,२८,९९९ अस्ति । अत्र ३,६२,५४२ पुरुषाः, ३,६६,४५७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.४५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०११ अस्ति । अत्र साक्षरता ३६.१०% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- १ अलीराजपुरम् २ जोबट ३ भाभरा ।

कृषिः वाणिज्यं च सम्पादयतु

अस्मिन् मण्डले वन्यविस्तारः अधिकः । अस्य विस्तारस्य जठ्ठीवाडा इति नाम । अयं विस्तारः ‘मिनि काश्मीर’- इति विख्यतोऽस्ति । महुवानामकं पुष्पम् तत्र प्राप्यते । मदिरायाः निर्माणे महुवा-नामकस्य पुष्पस्य उपयोगः अस्मिन् मण्डले भवति इति विशेषः ।

वीक्षणीयस्थलानि सम्पादयतु

कठ्ठीवाडा-अरण्यम् सम्पादयतु

अयम् अरण्यं गाढम् अस्ति । अयम् अरण्यं ’मिनि काश्मिर’ इति अपि प्रसिद्धमस्ति । अयं विस्तृतम् अरण्यमस्ति ।

कठ्ठीवाडा-जलप्रपातः सम्पादयतु

अस्मिन् मण्डले स्थिते कठ्ठीवाडा-अरण्ये अयं जलप्रपातः अस्ति । इदम् अतिरमणीयस्थलम् अस्ति । वृष्टिकाले अधिकसङ्ख्यायां जनाः तत्र गच्छन्ति । वृष्टिकाले इदं स्थलम् हरितमयं भवति येन कारणेन भ्रमणे आनन्दः आयाति । तत्र गत्वा जनाः स्वकीयान् क्लेशान् विस्मृत्य प्रफुल्लिताः भवन्ति ।

मथवाड सम्पादयतु

अस्य मण्डलस्य दक्षिणभागे इदं स्थलम् स्थितमस्ति । इदं स्थलं परितः विन्ध्याचलपर्वतश्रृङ्खला अस्ति । इदं स्थलं उन्नतक्षेत्रे स्थितमस्ति । तत्र वन्यप्राणिनः बहवः सन्ति । अस्मिन् स्थले ’काजलरानी’ इत्यस्याः प्रसिद्धं मन्दिरमपि अस्ति । मथवाड-प्रदेशे अपि गाढम् अरण्यमस्ति यस्मिन् भल्लुकः, शशः, सिंहः, चित्रव्याघ्रः, व्याघ्रः इत्यादयः वन्यप्राणिनः सन्ति । इदं स्थलं मध्यप्रदेश-गुजरातराज्ययोः सीमायां स्थितम् अस्ति । तेन कारणेन अत्रस्थजनानां वेशभूषा, भाषा, संस्कृतिः च गुजरातराज्यजनसदृशी अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://alirajpur.nic.in/
http://www.bharatbrand.com/english/mp/districts/Alirajpur/Alirajpur.html

"https://sa.wikipedia.org/w/index.php?title=अलीराजपुरमण्डलम्&oldid=463947" इत्यस्माद् प्रतिप्राप्तम्