अवन्तीराज्यम् पश्चिमभारते सुप्रसिद्धं राज्यम् आसीत् । बौद्धधर्मस्य उदयकाले विद्यमानेषु प्रसिद्धेषु चतुर्षु राजप्रभुत्वेषु अन्यतमम् आसीत् । अन्यानि त्रीणि राजप्रभुत्वानि कोसलराज्यं, वत्सराज्यं, मगधराज्यं च । अवन्तीराज्यस्य मध्ये प्रवहन्ती वेत्रावतीनदी अवन्तीराज्यम् उत्तर-अवन्तीराज्यं, दक्षिण-अवन्तीराज्यं चेति विभागं करोति स्म । अवन्तीराज्यस्य आरम्भकाले दक्षिण-अवन्तीराज्यस्य राजधानी आसीत् माहिष्मतीनगरम् । उत्तर-अवन्तीराज्यस्य राजधानी आसीत् उज्जयिनीनगरम् । अनन्तरं महावीरबुद्धयोः काले उज्जयिनीनगरम् एव समग्रस्य अवन्तीराज्यस्य राजधानी अभवत् । अवन्तीराज्यस्य इदानीन्तनमाल्वराज्येन, निमार्राज्येन, मध्यप्रदेशस्य कैश्चित् भूभागैः सह अस्पष्टं सादृश्यम् आसीत् । माहिष्मतीनगरम् उज्जयिनीनगरं च दक्षिणं प्रति गमनस्य मुख्यमार्गसमीपे स्थापिते आस्ताम् । एते नगरे राजगृहतः प्रतिष्ठानपर्यन्तं (इदानीन्तनपैथान्-नगरम्) विस्तृते आस्ताम् । अवन्तीनगरम् बौद्धधर्मस्य प्रमुखं केन्द्रम् असीत् । अवन्तीराज्यस्य राजा नन्दिवर्धनः मगधस्य राज्ञेन शिशिनागेन पराजितः । तदनन्तरं कालान्तरे अवन्तीराज्यं मगधराज्ये अन्तर्भूतम् ।

अवन्तीराज्यम्
१६ जनपदान् दर्शयत् मानचित्रम्
"https://sa.wikipedia.org/w/index.php?title=अवन्ती&oldid=399537" इत्यस्माद् प्रतिप्राप्तम्