अष्ट मठाः (Ashta Mathas)भारतदेशस्य कर्णाटकराज्यस्य उडुपीनगरे विद्यन्ते । मध्वाचार्यः एतेषाम् अष्टानां मठानां संस्थापनम् अकरोत् ।

श्रीकृष्णस्य मठः,उडुपी

अष्टौ मठा: सम्पादयतु

 
कृष्णमठस्य रथः
  1. .पलिमारुमठः
  2. .अदमारुमठः
  3. .कृष्णापुरमठः
  4. .पुत्तिगेमठः
  5. .शिरूरुमठः
  6. .सोदेमठः
  7. .काणेयूरुमठः
  8. .पेजावरमठः

मध्वाचार्यः समुद्रे प्राप्तस्य कृष्णविग्रहस्य संस्थापनम् उडुप्याम् अकरोत् । तदनन्तरं तस्य पूजार्थम् अष्टानां मठानाम् अपि संस्थापनम् अकरोत् । तेषाम् अष्टानां मठानां पीठाधिपतयः अपि नियोजिताः । वर्षद्वये एकवारं कृष्णस्य पूजायाः अवसरः प्राप्यते सर्वेण अपि मठेन । तथा पूजायाः अधिकारस्य हस्तान्तरपद्धतिः पर्यायः इति उच्यते ।

पर्यायः सम्पादयतु

आरम्भे अष्टानां मठानां पीठाधिपतयः अपि कृष्णमठे एव मिलित्वा वसन्तः परस्परं चर्चां कृत्वा धार्मिकाणि कार्याणि निर्वहन्ति स्म । प्रतिमठं मासद्वये एकवारं कृष्णस्य पूजायाः दायित्वं निर्वहति स्म । मध्वाचार्यस्य काले आरब्धा एषा पर्यायपद्धतिः वादिराजाचार्यस्य कालपर्यन्तम् अपि तथैव प्राचलत् । वादिराजाचार्यः पर्यायस्य अवधिं मासद्वयतः वर्षद्वयम् इति व्यस्तारयत् । अनेन क्रमेण पर्यायेतराणां मठानां स्वामिभिः दीर्घः प्रवासः वा, तीर्थयात्रा वा कर्तुम् अवसरः प्राप्तः । तदनन्तरं वादिराजाचार्याः उडुपीनगरस्य रथवीथौ अष्टानां मठानां निर्माणम् अकारयत् । तदारभ्य पर्यायस्य आरम्भकार्यक्रमः महता वैभवेन आरब्धः ।

 
देवालयस्य पुष्करः

युगलमठा: सम्पादयतु

यदा एकवारं श्री मध्वाचार्यः चातुर्मासम् आचरितुं कण्वतीर्थे उषितवान् आसीत् तदा अष्ट स्वामिनः आहूय द्वयोः द्वयोः एकैकगणः इव चत्वारि गणान् कृतवान् । एवं चत्वारि गणान् कर्तुं कारणं किम् इत्युक्ते पर्यायस्य स्वामिनोः मध्ये कस्यापि एकस्य किमपि अतीव कष्टं तथा अनारोग्यं भवति चेत् अन्यमठस्य स्वामिन: आगत्य श्रीकृष्णस्य पूजां कर्तुम् आनुकूल्यं भवति इति । कण्वतीर्थे मध्वाचार्यः पलाक्षवृक्षस्य अध: वितर्द्याम् उपविश्य युगलव्यवस्थायाः प्रारम्भं कृतवान् । इदानीम् अपि तां वितर्दीं द्रष्टुं शक्नुमः । सम्प्रदायपद्धतिः नामके ग्रन्थे एतस्याः युगलयोजनायाः उल्लेखः अस्ति । श्री मध्वाचार्यः प्रत्येकं युगलम् एकैकशः आहूय अन्यान्यक्रियाविधिं पूजाः च पाठितवन्तः ।

अन्ये मठा: सम्पादयतु

एतान् साम्प्रदायिकान् अष्टमठान् विहाय रथवीथिकायाम् इतोपि पञ्चमठा: सन्ति । ते :-

 
चन्द्रमौळीश्वरस्य देवालयः
  • भण्डारकेरी मठः
  • व्यासराय मठः
  • भीमनकट्टे मठः
  • उत्तरादि मठः
  • राघवेन्द्रस्वामी मठः

एतेषु मठेषु भण्डारकेरी तथा भीमनकट्टे मठौ तौळवमठौ, अन्ये सर्वेपि देशस्थाः मठाः । भीमनकट्टेमठः अर्वाचीनः विद्यते । राघवेन्द्रस्वामिनां मठे १९२६ तमे वर्षे श्री सुशीलेन्द्रस्वामिभिः स्थापितं श्रीराघवेन्द्रस्वामिनां वृन्दावनम् अद्यापि वर्तते ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अष्टमठाः&oldid=479935" इत्यस्माद् प्रतिप्राप्तम्