आन्ध्रप्रदेशस्य सागरतीराणि


आन्ध्रप्रदेशराज्ये विशाखपट्टणप्रदेशे सुन्दराणि सागरतीराणि सन्ति । एतेषु सागरतीरेषु रामकृष्णबीच्, लासन्सबे , ऋषिकोण्ड (८ कि.मी) अतिप्रसिद्धानि सन्ति । भीमुनिपट्टणम् बीच् (२५ कि.मी) विशाखापट्टणतः एतावत्पर्यन्तं विस्तृतम् अतीवदीर्घं तीरम् अस्ति । पार्श्वे एव २५ कि.मी.यावत् सागरतीरे वाहनमार्गोऽप्यस्ति । अत्र सागरस्य गभीरता अल्पास्ति । अतः जनानां अतीव आनन्दः भवति । शार्कमीनानां वासः अपि अत्र नास्ति । नगरवाहनस्य सम्पर्कः अस्ति । मछलीपट्टणसमीपे माङ्गिनपुडि बीच् (२३ कि.मी) वोडरेवु बीच नेल्लूरुसमीपे मैपाडबीच अतीवकर्षकाणि सागरतीराणि सन्ति । आन्ध्रप्रदेशे पूर्वभागे उत्तरतः दक्षिणं प्रति बहूनि सागरतीराणि सन्ति ।

विशाखपट्टणस्य सागतरतीराणी
आन्ध्रप्रदेशस्य सागतरतीराणी
आन्ध्रप्रदेशस्य सागतरतीराणी
विशाखपट्टणस्य सागतरतीराणी
आन्ध्रप्रदेशस्य सागतरतीराणी
आन्ध्रप्रदेशस्य सागतरतीराणी