आलूरु वेङकटरावः
आलूरु वेङकटरावः


परिचयः सम्पादयतु

आलूरु वेङकटरावः (Aluru Venkatarao) कविः कन्नडकुलपुरोहितः (Kannada kula purohita) इत्येव प्रसिद्धः । अहं कन्नडिगः, कर्णाटकं मदीयम् – इत्येतत् कवेः वेङकटरावस्य उद्घोषणम् । अस्य पिता भीमरायः, माता भागीरथिबायि च । अस्य मूलस्थलं धारवाडमण्डलस्य रोण-उपमण्डलस्य आलूरुग्रामः । पिता सर्वकारीयोद्योगी इति कारणतः अन्यान्यग्रामं प्रति स्थानान्तरं भवति स्म । अतः वेङकटरायस्य जननम् अभवत् बिजापुरनगरे तमे वर्षे जुलैमासे १२ दिनाङ्के । विद्याभ्यासः उद्योगश्च== पुणे फर्गुसन् महाविद्यालये अधीतवान् वेङकटरायः १९०३ तमे वर्षे बि. ए. परीक्षाम् उत्तीर्णवान् । १९०८ तमे वर्षे यल्. यल्. बि. पदवीं प्राप्य धारवाडनगरे न्यायवादिरूपेण कार्यस्य आरम्भं कृतवान् । किन्तु भारतस्वातन्त्र्यान्दोलनात् आकृष्टः सः न्यावादिवृत्तिं परित्यज्य स्वातन्त्र्यान्दोलने कन्नडजनानां योजनकार्ये उद्युक्तः जातः । एतदर्थं १९०६ तमे वर्षे 'वाग्भूषण’नामिकां मासिकपत्रिकाम् आरब्घवान् । एतस्याः पत्रिकायाः द्वारा जनजागरणं कृतवान् । कर्णाटकस्य इतिहासः, संस्कृतिः, धर्मः, कला, साहित्यम् इत्यादयः सर्वेऽपि विषयाः पत्रिकाद्वारा जनेभ्यः प्रापणीयाः इति सदुद्देशः आसीत् तस्य ।

समाजसेवा सम्पादयतु

कर्णाटकग्रन्थप्राकाशनमण्डली, कर्णाटक-इतिहासमण्डली च संस्थापितम् आलूर् वेङकटरायवर्येण । कर्णाटकविश्वविद्यालयस्य, कन्नडसाहित्यपरिषदः च स्थापनार्थं हृत्पूर्वकपरिश्रमः कृतः अनेन । 'कर्णाटकनूतनशाला' इत्येतां राष्ट्रियशिक्षणविद्यालयम् अस्थापयत् । धारवाडविद्यावर्धकसङ्घस्य श्रेयोभिवृद्ध्यर्थं कारणकर्ता आसीत् आलूरु वेङकटरायः ।

साहित्यकृषिः सम्पादयतु

कन्नडभाषया अनेकाः ग्रन्थाः एतेन रचितः । तेषु प्रमुखाः सन्ति श्री विद्यारण्य चरित्रा (१९०७ ), कर्णाटक गत वैभव (१९१७), स्वातन्त्र्य सङग्राम (१९२४ ), राष्ट्रियत्वस्य मीमांसा (१९२८), कर्णाटक वीररत्नगलु (कर्णाटकस्य वीररत्नानि ) (१९३० ), गीता परिमल (१९३०), गीता प्रकाशा (१९३४), गीता सन्देश (१९३६), कर्णटकत्वस्य सूत्राणी (१९५०), मध्वसिद्धान्त प्रवेशिक (१९५१), कर्णटकत्वस्य विकासः (१९५७) च । गीताभावप्रदीप, नन्न जीवन स्मृतिगलु (मम जीवनस्मृतयः), माध्वरु द्वैतिगलल्ल (माध्वाः द्वैतिनः न ), पूर्णत्ववादिगलु (पूर्णत्ववादिनः), श्री मध्वाचार्य मूलसिद्धान्तद विवरणे (श्री मध्वाचार्याणां मूलसिद्धान्तस्य विवरणम्), पूर्ण ब्रह्मवाद, सुखऊ शान्तियू (सुखं शान्तिञ्च ), कन्नडिगन भ्रमनिरसन(कन्नडजनस्य भ्रमनिरसनम्), अरविन्दरु तम्म हेन्डतिगे बरेद पत्र (अरविन्देन पत्न्याः कृते लिखितं पत्रम्) इत्यादयः आलूरु वेङ्कटरावेण रचिताः अन्ये ग्रन्थाः ।

"https://sa.wikipedia.org/w/index.php?title=आलूरु_वेङकटरावः&oldid=401068" इत्यस्माद् प्रतिप्राप्तम्