स्थिरसुखमासनम् (यो.द. २/४६)

सुखपूर्वकं दीर्घकालपर्यन्तमुपवेशनमासनमित्युच्यते । यथा –पद्मासनम्, सिध्दासनम् इत्यादयः । आसनफलं भवति –ततो द्वन्द्वानभिघातः ।( यो.द.-२/४८) । द्वन्द्वसहिष्णुता, प्राणायामयोग्यता, अनात्मवस्तुनि उदासीनता च आसनशुध्देः फलानि भवन्ति । सर्ववस्तुनि उदासीनभावमासनमुत्तमम् इति त्रिशाखाब्राह्मणोपनिषदि वर्णितम् ( ११/२९) । आसनस्य लक्षणम् एवम् अस्ति स्थिरं सुखम् आसनम् । आसनानाम् अभ्यासेन चित्तं स्थिरं भवति, शरीरं च सुखं प्राप्नोति । आसनानि चतुरशीति अभिमतानि ।

प्रमुखानि योगासनानि सम्पादयतु

External links सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आसनम्&oldid=482869" इत्यस्माद् प्रतिप्राप्तम्