एषः तृतीयः वर्णः । एषः ह्रस्वस्वरः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं तालु अस्ति ।इचुयशानां तालु -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
इ कारः
उच्चारणम्

नानार्थाः सम्पादयतु

"इ" विचित्रे स्मरे पुमान् - वैजयन्ती
"इ" खेदे च रुषोक्तौ चापाकरणानुकम्पयोः - मेदिनीकोशः

  1. कामः - “इ" कारःउच्यते कामः- एकाक्षरकोशः
  2. दया
  3. आश्चर्यम्
  4. निन्दा
  5. दुर्वाक्
  6. खेदः
  7. निराकरणम्

इकारः फणिरत्नार्चिष्वग्रतोऽर्थगुहार्थयोः। हरे करेणौ कक्ष्यान्ते निशाकरकरेस्मरे॥

  1. सर्पः
  2. रत्नम्
  3. कान्तिः
  4. पुरोभागः
  5. रहस्यम्
  6. ईश्वरः
  7. करेणुः
  8. अन्तःपुरम्
  9. चन्द्रस्य किरणः
"https://sa.wikipedia.org/w/index.php?title=इ&oldid=367440" इत्यस्माद् प्रतिप्राप्तम्