कर्णाटकस्य सागरतीराणि

कर्णाटकरस्य सागरतीराणि । कर्णाटकस्य सागरतीरं परशुरामक्षेत्रे अन्तर्भवति ।

परशुरामक्षेत्रस्य निर्माणार्थं परशुरामतः सागरं प्रति अभियाचना

दक्षिणकन्नडमण्डले सम्पादयतु

उळ्ळाल सम्पादयतु

कर्णाटके दक्षिणभागे मङ्गळूरुनौकानिस्थानम् अस्ति । इतः कर्णाटकस्य सागरतीरस्थानानाम् आरम्भः भवति । आहत्य कर्णाटकराज्ये ३२० कि.मी सागरतीरम् अस्ति । मङ्गळूरुतः १२ कि.मी दूरे उळ्ळालसागरतीरं मनोरञ्जनाय उत्तमं स्थानमस्ति । अत्यन्तं सुन्दरम् उद्यानयुक्तम् जनाकर्षकं च एतत् । मङ्गळूरुतः नगरयानानि सन्ति । सोमेश्वर, पणम्बूरु सुरत्कल् ससिहित्लु इत्यादीनि सागरतीराणि दक्षिणकन्नडमण्डले सन्ति ।

उडुपीमण्डले सम्पादयतु

कापु सम्पादयतु

कापुसागरतीरे उन्नतः दीपस्तम्भः निर्मितः अस्ति ।

मल्पे सम्पादयतु

मल्पेप्रदेशे मत्स्यागाराः, मत्स्यतैलोद्यमाः, नैकाविहारः, सागरस्नानसौलभ्यं च सन्ति । वडभाण्डेश्वरप्रदेशे सुरक्षितं सागरतीरम् अत्यन्तं विनोदाय भवति । अत्र वडभाण्डेश्वरदेवालयोऽपि अस्ति । नगरयानसम्पर्कः अपि अस्ति ।

मरवन्ते सम्पादयतु

उडुपीनगरे वसतिकृते उत्तमं सौकर्यम् अस्ति । मरवन्तेसागरतीरम् अतिसुन्दरम् विश्वे एव प्रसिद्धम् अस्ति । एतत् सदृशं अन्यत् नाम क्यालिफोर्नियाराज्ये मियामीसागरतीरम् अस्ति। मध्ये राष्ट्रियराजमार्गः सं-१७, एकत्र पयस्विनीनदी अपरत्र सागरः एवम् उभयतः जलम् । एकतः सागरतरङ्गानां आर्भटः । अन्यतः नदीजलस्य शान्तगानम् । एतत् सर्वेषां आनन्दाय भवति मार्गः उडुपीतः ५० कि.मी (कुन्दापुरतः १२ कि.मी ।

उत्तरकन्नडमण्डले सम्पादयतु

मुरुडेश्वरम् सम्पादयतु

उत्तरकन्नडमण्डले मुरुदेश्वरस्थानम् अपूर्वम् सागरतीरम् यात्रिकानां आकर्षकं च स्थानमस्ति ।

गोकर्णम् सम्पादयतु

गोकर्णे उत्तमम् सागरतीरमस्ति । अत्र सागरस्नानम् अतीव प्रसिद्धं पवित्रम् इति जनाः भावयन्ति । गोकर्णे श्रीमहगणपतिदेवालयः महाबलेश्वरदेवालयः कोटितीर्थम् इत्यादीनि प्रसिद्धस्थानानि । गोकर्णे श्रावणमासे शिवरात्रिपर्वणि विशेषोत्सवाः भवन्ति । वसतिभोजनादिव्यवस्था अस्ति । दक्षिणकाशीति प्रसिद्धं यात्रास्थलमेतत् ‘अत्र ‘ओं’ बीच् (सागरतीरम् अपि विश्वे प्रसिध्दम् अस्ति । प्यारडैस् बीच् अपि उत्तमम् अस्ति । धूमशकटायानतः कोङ्कणरेलमार्गे कुमटानिस्थानमस्ति । ततः ३० कि.मी । हुब्बळ्ळीतः १६५ कि.मी कारवारतः ५० कि.मी ।

कारवारम् सम्पादयतु

कारवारनगरे स्थितम् टयागोर् बीच् अतीव सुन्दरम् काळीनदी कोडीबाग् प्रदेशे सागरम् अभिगच्छति । अत्र सर्वतः निसर्गसौन्दर्यं पश्यामः । पूर्वे वनप्रदेशः पर्वतशिखराणि च । पश्चिमे महान् सागरः, मध्ये महासरोवरः, नदीजलं, राजमार्गे महान् सेतुः च । सागरतीरे सुन्दरम् उद्यानवनं बालानां विहाराय निर्मितम् अस्ति । कारवारस्यं सागरतीरम् दृष्ट्वा विश्वकविः रवीन्द्रनाथ ठाकूरः स्वकाव्येषु सागरतीरप्रभावं बहुधा प्रसंशितवान् अस्ति । अत्र सागरवीक्षणं सुरक्षितं सुलभं च । अतीव स्वच्छं सागरतीरवीक्षणं सुरक्षितं सुलभं च । यत्र कुत्रापि कागदं प्लस्टिक् इत्यादि न पश्यामः । तीरस्वच्छतासेना सदा कर्यरता अस्ति । मार्गः हुब्बळ्ळीतः १६५ कि.मी । गोवाराज्यतः समीपे कारवारनगरम् अस्ति । राष्ट्रियराजमार्गे (संख्या १७) कारवार निस्थानम् । कोङ्कणधूमशकटमार्गे कारवारनिस्थानमस्ति । गोवाराज्ये स्थितेन वास्कोविमाननिस्थानेनापि कारवारनगरम् आगन्तुम् शक्यते । बेङ्गळूरु मङ्गळूरु हुब्बळ्ळी मुम्बयी बेलगावी इत्यादिभ्यः नगरेभ्यः वाहनसम्पर्कः अस्ति ।

देवबाग् सम्पादयतु

एतत् अतिविशिष्टं भोजनवसतिगृहम् । तिन्त्रिणीवृक्षानां मध्ये एव काष्ठैः कुटीराः निर्मिताः सन्ति तिन्त्रिणीवृक्षशाखाः एव अत्रासनानि । अतीव व्ययदायकं इति कारणात् जनाः विरलाः भवन्ति । अत्र पक्षिवीक्षणम् अतीवानन्दाय भवति । सूर्यास्तदर्शनम् अतीव हर्षदायकम् अस्ति । आधुनिकसौलभ्यानि न सन्ति । नैसर्गिकं शान्तं सुन्दरं स्थानमेतत् । गोलघर-उपाहार-भोजनगृहमस्ति । काळीनदीजले नौकाविहारः कर्तुं शक्यते । देवबाग् समीपे अष्टविशिष्टस्थानानि सन्ति । कूर्मगड, अञ्जुदीव, सMन्यासिद्वीपः च समीपे सन्ति । मार्गः कारवारनगरात् कोडीबाग्जेट्टितः १० कि.मी नौकायानेन गन्तुं शक्यते ।