कलापी
सुरसिंह तख्तसिंह गोहेल
जन्मस्थानम् लाठी गुजरातराज्यम्
जन्म २६-०१-१८७४
मृत्युः १८५६
नाम - सुरसिंह तख्तसिंह गोहेलः
उपनाम - 'कलापी’
जन्म -
जन्मस्थानम् -
कुटुम्बम् - पत्नी-रमाबा, आनन्दीबा, शोभना

पारीवारीक जीवन सम्पादयतु

शोभनया सह १८८९ विवाहं कृतवान । ऋजुः संवेदनशीलश्च एषः कविः राजधर्म तिष्ठन् अपि राजकार्ये आत्मानं श्लेषयितुं साफल्यं न प्राप्नोत् । अन्ते राजछत्रं व्यक्तुकामस्य तस्य संवत् १८५६ तमे वर्षे (अनावृष्टिकाले) लाठीग्रामे अवसानम् अभूत् । स्वल्पम् औपचारिकं शिक्षणं प्राप्तवान् कलापी स्वीयैः शिक्षकैः उत्तमं शिक्षणं लब्धवान् । सः अङ्ग्रेजी-संस्कृत- ऊर्दू-फारसीभाषाणाम् अध्ययनं कृतवान् । अध्ययने सः महतीं रुचिं साधितवान् । इतरभाषाणाम् अध्ययनेन, मणिलाल-कान्त-गोवर्धनराम-न्हानालाल-आदिभीश्च तस्तं साहित्यदृष्टिः प्रफुल्लिता अभवत् ।

१८३२ तः १९०० वर्षं पावत् तस्य सर्वाः रचनाः समावेश्य 'कलापीनो केकारव' नामकस्य सङ्ग्रस्य मरणोतर प्रकाशनं कान्तस्य हस्तकमलेन १९०३ तमे वर्षे अभूत । अनन्तरम् अपि सटिकाः आवृत्तमः काले प्रकाशिताः । ततोऽपि वृतानां पद्यानां सम्पादनानि बहुशः अभवन् । वर्डझवर्थशेली-कीट्सादीनां प्रणयकाव्यैः प्रतिहतः कलापी तेषां कवीनां केषाञ्चित् काव्यानाम् भावयुक्तान् अनुवादान् अपि कृतवान् । कलापिनः बहूनि काव्यानि तु तस्य जीवनसङ्घर्षात् उत्पन्नानि वर्तन्ते । कलापिनः जीवनसङ्घर्षः पदा पराकाष्ठां प्राप्नोत् तदैव सः अधिकानि पद्यानि रचितवान् इति ध्यानास्पदम् ।

विशेषतः प्रणय-निसर्ग-प्रभुभक्ति-चिन्तनादीन भावन् प्रकटयन्ति प्रकटयन्त्यः कलापिनः कविताः प्राधान्येन छन्दोबद्धानि लघुपद्यानि, ऊर्मिकाव्यानि, खण्डकाव्यानि इत्यादिषु प्रकारेषु वहन्ति । लौकिकगुर्जरभाषायाः विनोयोगेन उत्पन्ना प्रसादिकी शैली, संवेदनस्य तीव्रता, लाक्षणिकी अभिव्यक्तेः छटा, चित्राङ्कनस्य विशदता, ऊमिविचारस्य मनोरम्यम् आलेखनं च विलक्षां मुद्राम् आवहति । यद्यपि कलासंयमस्य स्वभावजात् अभावात्, विनयनलाभात् असामीप्यात् च तस्य रचनासु किञ्चियत् शैथिल्यं दृष्टिगोचरं भवति । खण्डकाव्येषु अपि वस्तुलक्षिता विशेषतः सिद्धा नाभूत् । तथापि दयङ्गमा चिन्तनशीलता ऋजुसंवेदनस्य माधुर्ययुक्तं निरूपणं च काव्यं धं करोति । अन्तिमे काले तस्य रचनासु प्रोढः दृश्यते ।

कलापी प्रवासवर्णनं संवारान्, संहारलेखनम् आत्मकथनं पत्ररूपेण गधलेखनं च कृतवान् । १८९१-९२ तमे वर्षान्तरे कृते भारतप्रवासकाले स्वशिक्षकाय प्रेषितेषु पत्रेषु 'काश्मीनो प्रवास' ग्रन्थस्य प्रकाशनं, १९१२ तमे वर्षे अभूत् । अस्मिन् प्रवासकथने निसर्गदर्शनस्य विस्मयम् अलिखति कविः । अत्र भौकिकजीवनस्य सूक्ष्मनिरीक्षणानि ध्यानास्पदं वर्तन्ते । प्रवासस्य अनुभवानां निरूपणं स्वाभाविकम् अस्ति । तत्र प्रफुल्लितं दृश्यमानं गद्यं संस्कृतग्रन्थानां प्रभावं पिशनयति

प्लेटो-स्वडनबोर्गयोः तत्वचिन्तवान् विचारसामग्रीम् उद्धृत्य, लोककथागतानि च पात्राणि स्वीकृत्य कलापिना लिखितेषु चतुर्षु संवादेषु ऊर्मिवलं चिन्तनस्य च स्फुलिङ्गाश्च दृश्यन्ते । चिन्तनात्मकवस्तु संवादछटायां निक्षपन् कविः गद्यस्य लाक्षणिकं रूपं द्योतयति ।

साहित्यकारान् मित्रीणि स्नेहिजनान्, कौटुम्बिकान् चोद्दिश्य तेन लिखितानि ६७९ पत्राणि नानाग्रन्थेषु प्रकाशितान वर्तन्ते । बहूनि पत्राणि इतोऽपि ग्रन्थस्थानि नाभवन् । एतेषु पत्रेषु कलापिनः निर्दम्भं ऋजु ऊर्मिलं च व्यक्तित्वं दृष्टगोचरं भवति । उपि च तत्र तस्य जीवनकार्यं साहित्यसाधना चिन्तनशीलता च परिचीते । रुचिकराणि एतानि पत्राणि मुहुर्मुहुर्दर्धमानां गद्यशैलीं प्रकटयति । कलापी निजसंवादिनी यथसमयं लिखति स्म इति, आत्मकथालेखनस्य प्रमभस्य चेति उल्लेखाः लभ्यन्ते । परन्तु एतत् सर्वम् उपलब्धं नास्ति ।

'कलापीनो केकारव' सङ्ग्रहे नानाप्रकारकानि पद्यानि वर्तन्ते । अत्र उत्कटा ऊर्मिः, भावनाशीलतायाः वाचालायाः भाषायाः अभिव्यक्तिश्च दृश्यते । तस्यं छन्छोबद्धानि काव्यानि विलक्षणं स्पर्शं जनयन्ति । स्वरूपदृष्ट्या कञ्चित् शिथिलाः दृश्यमानाः 'गफाती’ रचनाः कवेः स्वभावस्य त्पीडायाः दृषट्या, च ध्यानार्हाः सन्ति । प्रारम्भे व्यक्तिस्नेहः अन्ते च प्रभुक्तिः इति परिणताः रचना गुणात्मकदृष्ट्या उत्कृष्टाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=कलापी&oldid=422863" इत्यस्माद् प्रतिप्राप्तम्