कोङ्कणधूमशकटमार्गस्य कल्पना भारतदेशे शतवर्षेभ्यः प्राक् एव कृता आसीत् । तस्याः कल्पनायाः साकारीकरणम् इदानीं जातम् अस्ति । साकारः अभवत् । भारतदेशस्य पश्चिमे अरब्बी -सागरतीरे अस्य मार्गस्य निर्माणम् अभवत् । अतीव विशिष्टः धूमशकटमार्गः एषः । अस्य दीर्घता ९८३ कि.मी अस्ति । कर्णाटककेरळगोवामहाराष्ट्रराज्येषु एषः मार्गः व्यवस्थापितः अस्ति । अत्र यात्रिकैः सदा समुद्रगर्जनं श्रोतुं शक्यते । मार्गः एषः नदी-पर्वत- सागरतीर- घट्टप्रदेश- सुरङ्गादिषु कृतः अस्ति । पार्श्वे नारिकेल-पूगवाटिकाः सुन्दरप्रकृतिवैभवं दर्शयन्ति । प्रकृत्याः मध्ये आनन्देन धूमशकटयानं ध्वनिं कुर्वत् गच्छतीव भाति ।

भूनिपातस्य निवारणाय सुरङ्गमार्गसमीपे कृता विशेषव्यवस्था
गोवाप्रदेशस्य झुवारीनद्याः कृते निर्मितः रैलसेतुः

कर्णाटकस्य काश्मीरसदृशं सौन्दर्यं दर्शयित्वा कोङ्कणधूमशकटम् गोवाराज्यं प्रविशति । तत्र स्वच्छन्दसंस्कृत्याः सागरतीराणि दूरे स्थापयित्वा अग्रे रत्नगिरिप्रदेशे घट्टप्रदेशे गच्छत् महाराष्ट्रराज्यं प्रविशति । अनेकेषु सुरङ्गेषु प्रविश्य लीलाविलासं प्रदर्शयति ।

द्वयोः पर्वतयोः मध्ये सम्पर्कं साधयन्ती सेतुः
चिपळूणसमीपे सुरङ्गं प्रविशत् यानम्

तिरुवनन्तपुरतः मुम्बयीनगरं (९८१ कि.मी.)गच्छत् कोड्कणधूमशकटं सततं ३० घण्टाः प्रचलति । अत्र मार्गे ५२ निस्थानानि सन्ति । चिपळूण, राजापूरं, सिन्धूदुर्गं, कुडाल्, मडगाव, कारवार, अङ्कोला गोकर्णं, कुमटा, होन्नावर, भट्कळ्, कुन्दापुरम् उडुपी मङ्गळूरु कोचिन् इत्यादीनि प्रमुखानि निस्थानानि सन्ति। अस्मिन् मार्गे १३० दीर्घसेतवः १६७० लघुसेतवः ७१ सुरङ्गमार्गाः सन्ति । रत्नगिरिसमीपे कर्बाडे स्थले ६.५ कि.मीदीर्घः सुरङ्गमार्गः अस्ति । भारते अतीव दीर्घः सुरङ्गमार्गः एषः अस्ति । कोङ्कणमार्गनिर्मणे आधुनिकतन्त्रज्ञानस्य उपयोगः कृतः अस्ति । ब्लास्टलिक् ट्र्याक् अस्ति । गणकयन्त्रेण नियन्त्रितव्यवस्या अस्ति । जनानां गमनाय सञ्चारमार्गाः सन्ति । सूचनाफलकानि सन्ति । गोवानिस्थानम् (चर्च) प्रार्थनामन्दिरमिवास्ति । मुरुडेश्वरनिस्थानं देवालयः इव अस्ति । अस्मिन् मार्गे प्रवासः अतीवानन्दाय भवति प्रतिदिनम् अनेकानि धूमशकटानि सञ्चरन्ति । मङ्गळूरुतः १७ घण्टाभ्यन्तरे, कोच्चितः २४ घण्टाभ्यन्तरे मुम्बयी गन्तुं शक्यते । कर्णाटके कारवारतः मङ्गळूरुपर्यन्तं गन्तुम् शक्यते । वर्षाकाले गच्छन्ति चेत् अनेके जलपाताः द्र्ष्टुं शक्याः । पर्वत शिखराणां दर्शनं सततम् भवति ।

"https://sa.wikipedia.org/w/index.php?title=कोङ्कणधूमशकटमार्गः&oldid=370758" इत्यस्माद् प्रतिप्राप्तम्