खो खो क्रीडा(Kho kho) साम्प्रदायिकक्रीडासु अन्यतमा । एषा क्रीडा दक्षिण-एष्या खण्डे प्रसिद्धा वर्तते । तत्राऽपि भारतदेशे, पाकिस्तानदेशे च अतीव प्रसिद्धक्रीडा वर्तते ।

खो खो क्रीडा
खो खो क्रीडा शैली
वैशिष्ट्यसमूहः
गणसदस्याः १२ क्रीडालवानां गणः, ९ क्रीडालवाः क्रीडाङ्गणे क्रीडन्ति ।
उपस्थितिः

इतिहासः सम्पादयतु

खो खो क्रीडायाः इतिहासः स्पष्टतया न लभ्यते । परन्तु, एषा पुराकालादेव प्रसिद्धा क्रीडा इति सर्वे वदन्ति । यदा धावन-ग्रहणं क्रीडा आरब्धा तदानीमारभ्य एषा क्रीडाऽपि वर्तते इति मन्यते । महाराष्ट्राराज्ये एषा क्रीडा प्रारब्धा इत्यपि केचन वदन्ति । पुरा काले खो खो क्रीडा रथेभ्य सः क्रीडान्ति स्म । अतः अस्य क्रीडायाः नाम रथेरा इति आसीत् । २० तमे शताब्दस्य आरम्भकाले खो खो क्रीडायाः क्रमद्धनियमाः रचितः । १९१४ तमे वर्षे पुणे नगरे प्रदेशे खो खो क्रीडायाः नियमानां रचनार्थम् एकस्य समितेः रचना कृता । १९२४ तमे वर्षे बरोडा नगरे प्रथमवारं खो खो क्रीडायाः नियमाः प्रारब्धाः । १९५९ तः १९६० तमस्य वर्षस्य समये प्रथमवारं राष्ट्रियस्तरे विजयवाडा नगरे खो खो क्रीडायाः स्पर्धा अभवत् ।

क्रीडाङ्गणम् सम्पादयतु

खो खो क्रीडाङ्गणम् आयताकारं भवति । क्रीडाङ्गणम् इदं २९ मी दैर्घ्यं, १६ मी विस्तारं वर्तते । क्रीडायाः पृष्ठभूमौ उभे प्रान्ते आयताकारौ वर्ततः । एकस्य प्रान्तस्य आयताकारः २.७५ मी । द्वयोः प्रान्तयोः आयताकारस्य मध्ये दारुणा निर्मिता यष्टि भवति । मध्ये विद्यमान प्रदेशः ९०७.५० से मी तथा च ३०*३० से मी भवतः । तत्र अष्ट उपपथाः भवन्ति । एते उपपथाः लघु चतुर्भुजानां सविधे भवन्ति । प्रत्येकः चतुर्भुजः ५०० से मी दैर्घ्यं, ७० से मी विस्तारं च भवति । मध्यभागस्य उपपथस्य दक्षिणभागं समानतया भागद्वयं कृतं भवति । प्रत्येकभागः ७.३० से मी प्रमाणेन मध्यभागस्य उपपथं विभागं करोति । मध्यभागस्य समापन प्रदेशे उभे प्रान्ते स्तम्भद्वयं स्थापितं वर्तते । प्रत्येकस्तम्भः १२० से मी उन्नतं भवति । प्रत्येकस्य परिधिः ३० से मी तः ४० से मी पर्यन्तं भवति ।

क्रीडानियमाः सम्पादयतु

 
क्रीडाङ्गणस्य प्रतिकृतिः
  • प्रत्येकस्मिन् गणे १२ क्रीडालवाः भवन्ति । परन्तु,क्रीडाङ्गणे ९ क्रीडालवाः एव प्रत्येकस्मिन् गणतः क्रीडन्ति ।
  • स्पर्धायां इन्निङ्ग्स् २ भवति । एकम् इन्निङ्ग्स् ९ निमेषात्मकं धावनं, अनुधावनेन अन्तर्भवति ।
  • गणद्वये एकः गणः वीरासने भवन्ति । अपरः गणः धावति ।
  • वीरासनस्य गणैः निर्धिष्टस्य समयाभ्यन्तरे यावत् शक्यं तावत् धावकगणानां क्रीडलवान् स्पर्षः करणीयः । धावकगणैः निर्धिष्टस्य समयाभ्यन्तरे यावत् शक्यं तावत् वीरासनस्य क्रीडलवद्वारा स्पर्षात् रक्षणीयम् ।
  • वीरासनस्य क्रीडालवाः निर्धिष्टस्य समयाभ्यन्तरे धावकगणानां क्रीडलवानाम् स्पर्षः अधिकसंख्यया कुर्वन्ति चेत्, वीरासनस्य गणस्य जयः भवति । परन्तु, वीरासनस्य क्रीडालवात् धावकगणानां क्रीडलवाः निर्धिष्टस्य समयाभ्यन्तरे स्पर्षेण रक्षिताः भवन्ति चेत् धावकगणस्य जयः भवति ।

क्रीडा सामग्री सम्पादयतु

  • द्वौ स्तम्भौ
  • मापिका
  • सुधाचूर्णम्
  • नखकृन्तनी
  • घटी यन्त्रम्
  • शीटिका

खो खो स्पर्धाः सम्पादयतु

  • राष्ट्रियस्पर्धा
  • युवकानां राष्ट्रियस्पर्धा
  • बालकानां राष्ट्रियस्पर्धा
  • अन्ताराष्ट्रिय प्राथमिकस्पर्धा
  • अन्ताराष्ट्रिय उच्च्माध्यमिकस्पर्धा
  • अन्ताराष्ट्रिय माध्यमिकस्पर्धा
  • महिलानां राष्ट्रियस्पर्धा
  • आन्तर्विद्यालयानां स्पर्धा

संस्था सम्पादयतु

भारतीय खो खो सङ्घः(Kho Kho Federation of India - K.K.F.I.)

चित्रवीथिका सम्पादयतु

आधाराः सम्पादयतु

  • "Tripura KHO KHO Association @ Tripura4u". Retrieved 28 March 2011.
  • Peter A. Hastie (1 July 2010). Student-Designed Games: Strategies for Promoting Creativity, Cooperation, and Skill Development. Human Kinetics. pp. 52–. ISBN 978-0-7360-8590-8. Retrieved 7 March 2012.
  • A trip through SA's indigenous games
  • "KHO KHO FIELD".
  • "Equipment".
  • "Indian Olympic Association: Kho Kho rules". Retrieved 07-02-2011.
       pls like it

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=खो_खो_क्रीडा&oldid=483525" इत्यस्माद् प्रतिप्राप्तम्