गुजरातविश्वविद्यालयः

गुजरातविश्वविद्यालयः ( /ˈɡʊdʒərɑːtəvɪshvəvɪdjɑːləjəh/) (गुजराती: ગુજરાત યુનિવર્સિટી, आङ्ग्ल: Gujarat University) गुजरातराज्यस्य अहमदाबाद्नगस्य नवरङ्गपुराक्षेत्रे अस्ति । एषः गुजरातराज्यस्य बृहत्तमः विश्वविद्यालयः । एतस्य ध्येयसूत्रमस्ति- योगः कर्मसु कौशलम् । गुजरातसर्वकारेण चालितः एषः विश्वविद्यालयः उच्चशिक्षां प्राप्तुमुत्तमं स्थलमस्ति । एतस्य विश्वविद्यालयस्य नियन्त्रणे अहमदाबाद्नगरस्थाः महाविद्यालयाः सन्ति । तथा च गुजरातराज्यस्य अन्यभागेषु स्थिताः केचन महाविद्यालयाः अपि एतस्य नियन्त्रणे अन्तर्भवन्ति । एतेन विश्वविद्यालयेन राष्ट्रिय-मूल्याङ्कन-प्रत्यायन-परिषदा (National Assessment and Accreditation Council - NAAC) B++ (८३.१%) गुणवत्ताङ्काः प्राप्ताः सन्ति [१] । एषः विश्वविद्यालयः चिकित्सा-यन्त्रनिर्माणविद्या-औषधविज्ञान-वाणिज्य-प्रबन्धनम् (Management) इत्यादीनां शिक्षणे विख्यातः अस्ति ।

गुजरातविश्वविद्यालयः

ગુજરાત યુનિવર્સિટી

Gujarat University
अत्र गुजरातविश्वविद्यालयस्य समग्रं दर्शनं भवति ।
स्थितिः अहमदाबाद्, गुजरातराज्यम्
स्थापनातिथिः २३-११-१९४९
गुणवत्ताङ्कः B++ (८३.१%)
ध्येयसूत्रम् योगः कर्मसु कौशलम्
ध्येयसूत्रस्य_मूलस्थानम् श्रीमद्भगवद्गीता २.५०
विद्यार्थिनः ३,००,००० (२०१३-१४)
जालस्थानम् www.gujaratuniversity.ac.in

इतिहासः सम्पादयतु

महात्मागान्धिः,सरदार् वल्लभभाई पटेलः, आचार्यः आनन्दशङ्करः ध्रुवः, दादा साहेब मावलङ्कर(गणेशः वासुदेवः मावलङ्कर), कस्तूरभाई लालभाई इत्यादिभिः समाजहितैषिभिः १९२० तमे वर्षे गुजरातविश्वविद्यालयस्य स्थापनाविचारः कृतः आसीत् [२][३]भारतस्य स्वतन्त्रतापश्चाद् अस्य विश्वविद्यालयस्य स्थापना १९४९ तमे वर्षे 'नवम्बर्'-मासस्य २३ दिनाङ्के राज्यसर्वकारेण कृता । गुजरातविश्वविद्यालयाधिनियमान्तर्गतम् अस्य विश्वविद्यालयस्य स्थापना जाता आसीत् [४][५]

परिसरः सम्पादयतु

 
स्पर्शपटलसङ्गणकस्य साहाय्येन विद्यार्थिनः स्वयमेव सूचनां प्राप्तुं शक्नुवन्ति ।

गुजरातविश्वविद्यालयपरिसरः १.१ कि.मी. विस्तृतः अस्ति । अत्र मुख्यरूपेण तोलिकाभवनम् (clock tower building) प्रसिद्धमस्ति । इदमेव भवनम् अस्य विश्वविद्यालयस्य प्रशासनभवनमस्ति । तस्मात् दक्षिणे सम्प्रश्र्नविभागः (Inquiry Center) अस्ति । एतस्मिन् विभागे प्रवेश-परीक्षा-शिक्षाशुल्कादीनां विषये सूचनाः प्राप्यन्ते । यदि कोऽपि विश्वविद्यालयसंलग्नां सूचनां स्वयमेव प्राप्तुमिच्छति, तर्हि स्पर्शपटलसङ्गणक(Touch-Screen)साहाय्येन स्वयमेव सूचनां प्राप्तुमर्हति । परिसरेsस्मिन् विशालं क्रीडाङ्गणमस्ति । अत्र विभिन्नानां क्रीडास्पर्धानाम् आयोजनं भवति ।

गुजरातविश्वविद्यालयपरिसरस्य मुख्याकर्षणं परिसरस्य आकाशवाणी (Radio) सेवास्ति । अस्याः सेवायाः नाम गुरुः (G.U.R.U.) इति अस्ति । एतेन विश्वविद्यालयेन गुजरातराज्ये एषा सेवा प्रप्रथममारब्धा अस्ति । भारते परिसराकाशवाणीसेवाप्रारम्भकरणे अस्य पञ्चमः क्रमः अस्ति । एषा परिसराकाशवाणीसेवा ९०.८ MHz उपरि चलति ।

विश्वविद्यालयस्य विशेषताः सम्पादयतु

गुजरातविश्वविद्यालयेन सह संलग्नेषु ३५० महाविद्यालयेषु, २२ अनुमोदनप्राप्त(Approved)संस्थासु, २५ मान्यताप्राप्तसंस्थासु ३,००,००० अधिकाः छात्राः उच्चशिक्षणं प्राप्नुवन्ति [६] । अत्र ३५ अधिकाः स्नातकोत्तरविश्वविद्यालयविभागाः तथा १९९ स्नातकोत्तरकेन्द्राण्यपि सन्ति । ये छात्राः उद्योगशीलाः सन्ति, ये च उच्चशिक्षार्थं धनव्ययं कर्तुमसमर्थाः सन्ति, ते बाह्यपरीक्षार्थिरूपेण (External Candidates) पठेयुः तथा व्यवस्थाप्यत्रास्ति । बाह्यपरीक्षाव्यवस्था स्नातककक्षासु, स्नातकोत्तरकक्षासु चास्ति [७]

यद्यपि गुजरातविश्वविद्यालस्य साहाय्येन गुजरातराज्ये सरदार् पटेल विश्वविद्यालयः, सौराष्ट्रविश्वविद्यालयः, उत्तरगुजरातविश्वविद्यालयः, दक्षिणगुजरातविश्वविद्यालयः इत्यादयः ७ नवीनविश्वविद्यालयाः स्थापिताः, तथापि गुजरातविश्वविद्यालयः एव गुजरातराज्यस्य विशालतमः, लोकप्रियश्च विश्वविद्यालयोऽस्ति ।

अन्यविशेषताः सम्पादयतु

Gujarat University Study Abroad Program [८] सम्पादयतु

एषोऽभ्यासक्रमः भारते प्रप्रथमम् एतेन विश्वविद्यालयेनारब्धोsस्ति । अनिवासिभारतीयेभ्यः (Non-Resident Indians) एतस्याभ्यासक्रमस्य रचना कृताsस्ति । एतस्याभ्यासक्रमस्य मुख्योद्देशोऽस्ति भारतीयसंस्कृतेः विस्तारः, नूतनज्ञानप्रपञ्चगठनञ्च । ये च विदेशवासिनः भारतीयाः स्वसंस्कृतिं, परम्परां वा निकषा आगन्तुकामाः सन्ति, ते एनमभ्यासक्रमं पठन्ति । एतस्मिन्नन्तर्गताः केचन मुख्यविषयाः अधोनिर्दिष्टाः -

  • Studies in Gandhian Philosophy (गोन्धिदर्शनशिक्षणम्)

गुजरातराज्यम् महात्मागान्धिमहोदयस्य जन्मभूमिः, कर्मभूमिश्चास्ति । महात्मना स्थापिताः महत्वपूर्णसंस्थाः, आश्रमाश्च गुजरातराज्ये एव सन्ति । अत एव महात्मनः विचारप्रचारार्थमेषोऽभ्यासक्रमः अत्र योजितोsस्ति ।

गुजरातराज्यस्य आदिवासिविषयकसंशोधनमत्र भवति । अस्योद्देशः नगरग्रामयोः विकासेन सह आदिवासीनां संस्कृतेरपि रक्षणं भवतु, विकासश्च भवतु इति ।

  • Yoga and Meditation (योगशिक्षणम्)

अत्र योगविषयस्याध्ययनम् अपि भवति ।

G.U.S.A.P इत्यस्मिन् अन्ये विषयाः अपि सन्ति, ये विदेशीयान् अपि आकर्षयन्ति ।

सङ्गणकप्रयोगशाला सम्पादयतु

विश्वविद्यालये १० जी.बी. 'फाइबर्-ओप्टिक्' अन्तर्जालसम्पर्कः (Internet Connection) अस्ति । विश्वविद्यालयेन १००० M.B/s गतेः अन्तर्जालसम्पर्कः B.S.N.L. तः स्वीकृतः अस्ति । एषः अन्तर्जालसम्पर्कः ४० भवनेषु २४०० सङ्गणकैः सह योजितः अस्ति । अत्र विद्यार्थिनः अल्पमूल्ये अन्तर्जालोपयोगं कुर्वन्ति ।

ग्रन्थालयः सम्पादयतु

ग्रन्थालयोऽपि आधुनिकप्रौद्योगिक्या सज्जितः अस्ति । अत्र ई-सरिताप्रकल्पान्तर्गतं Soul इति तन्त्रांशे (Software) पुस्तकसूचिः अन्तर्जाले आरोपिता अस्ति । अत्र विद्यार्थिनः स्वोपयुक्तं पुस्तकं सरलतया अन्वेषितुं शक्नुवन्ति । तथा पुस्तकस्य आदानप्रदानकार्यं समयव्ययं विना भवितुमर्हति । विद्यार्थिनः अत्र स्थित्वापि पुस्तकं पठितुं शक्नुवन्ति ।

परीक्षाप्रक्रिया सम्पादयतु

परीक्षाप्रक्रिया मुख्यरूपेण अन्तर्जालपरीक्षापद्धत्या एव भवति । तथा O.M.R. पद्धत्या अपि परीक्षा भवति । विद्यार्थिनां सम्पूर्णपरिचयस्य सूचनाधारः (Database) गुणपत्रकान्तर्निहिते chip मध्ये भवति । chip मध्ये रक्षितः परिचयः साक्षात्कारादिस्थलेषूपयुक्तो भवति ।

परीक्षाविभागः परीक्षापरिणामं लघुसन्देशद्वारा (SMS) तथा विश्वविद्यालयजालस्थाने (University Website) प्रकटयति ।

छात्रावाससुविधा सम्पादयतु

बहिस्थात् ये विद्यार्थिनः आगच्छन्ति, तेभ्यः छात्रावाससुविधाप्यत्रास्ति । अत्र द्वौ विशालौ छात्रालयौ स्तः । एकः छात्रेभ्यः, द्वितीयः छात्राभ्यश्च । अत्रैव पत्रालय-वित्तकोष-अल्पाहारगृहादयः सन्ति ।

विद्यार्थिसहायकेन्द्रम् सम्पादयतु

विद्यार्थिसहायकेन्द्रस्य नाम I.V.R.S (Interactive Voice Response System) अस्ति । अत्र दूरवाण्या विद्यार्थिनः स्वप्रश्र्नानाम् उत्तराणि प्राप्नुवन्ति । तस्य क्रमाङ्कः - ०७९-६६१२३१००, ०७९-६६१२३०००.

अनेन ज्ञायते यत्, गुजरातविश्वविद्यालयः ज्ञानपिपासूनां आकर्षणाय महत्परिश्रमं करोति, तथा स्वस्य अभ्यासक्रमे नावीन्यं निर्वहति । एतादृशाणि कार्याणि एव एनं विश्वविद्यालयं भारते प्रसिद्धिं ददति ।

सम्बद्धाः लेखाः सम्पादयतु

भावनगरविश्वविद्यालयः

गुजरातविद्यापीठम्

सौराष्ट्रविश्वविद्यालयः

गुजराती साहित्यिकाः

बाह्यानुबन्धाः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. http://naac.gov.in/docs/Result%20RAR-24-SEPT-2014.pdf
  2. Gandhinagar: Building National Identity in Postcolonial India. 2004. p. 53. 
  3. Ahmedabad, 1958 by Kapilray M. Mehta – Page 233
  4. "Brief History". Gujarat University Official Website. आह्रियत 9 January 2013. 
  5. "Organization of Gujarat University". Gujarat University. आह्रियत 9 January 2013. 
  6. "AFFILIATED COLLEGES & RECOGNISED INSTITUTIONS". Gujarat University. 2009–2010. Archived from the original on 31 March 2010. आह्रियत 9 January 2013. 
  7. "Bachelor Courses". Gujarat University. आह्रियत 9 January 2013. 
  8. "Post Graduate Courses". Gujarat University. आह्रियत 9 January 2013.