चम्पावतमण्डलम् ( /ˈtʃhəmpɑːvətəməndələm/) (हिन्दी: चम्पावत जिला, आङ्ग्ल: Champawat District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति चम्पावत इति नगरम् । चम्पावतमण्डलम् आकर्षकमन्दिर-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । चान्दवंशीयराजानां दुर्गाः अपि वीक्षणीयाः सन्ति अत्र ।

चम्पावतमण्डलम्

Champawat District
चम्पावत जिला
चम्पावतमण्डलम्
चम्पावतमण्डलस्य बालेश्वरशिवमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि चम्पावत, बाराकोट, लोहाघाट, पाटी, पूर्णागिरि
विस्तारः १,७८१ च.कि.मी.
जनसङ्ख्या(२०११) २,५९,६४८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७९.८३%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://champawat.nic.in/

भौगोलिकम् सम्पादयतु

चम्पावतमण्डलस्य विस्तारः १,७८१ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तराखण्डराज्यस्य द्वे मण्डले स्तः । ते क्रमेण अल्मोडा-पिथौरागढमण्डले । अस्य दक्षिणदिशि उधमसिंहनगरमण्डलं, पश्चिमदिशि नैनितालमण्डलं, पूर्वदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - लधिया, काली, लोहावती, लोदिया, रतिया, पुनार, कुटाकर

जनसङ्ख्या सम्पादयतु

 

चम्पावतमण्डलस्य जनसङ्ख्या(२०११) २,५९,६४८ अस्ति । अत्र १,३१,१२५ पुरुषाः, १,२८,५२३ स्त्रियः, ३७,०२८ बालकाः (१९,७६६ बालकाः, १७,२६२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८० अस्ति । अत्र साक्षरता ७९.६३% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चम्पावत २ बाराकोट ३ लोहाघाट ४ पाटी ५ पूर्णागिरि ।

वीक्षणीयस्थलानि सम्पादयतु

बालेश्वरमन्दिर-शनिमन्दिर-नागनाथमन्दिर-मीठारीठासाहिब-'श्यामातल पञ्चेश्वर'-देवीधुरा-लोहाघाट-'अब्बोट माउण्ट्'-पूर्णागिरिमन्दिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति ।

बालेश्वरमन्दिम् सम्पादयतु

अस्य मन्दिरस्य स्थापना दशमे, द्वादशे वा अब्दे अभूत् । चान्दवंशीयराजानां शासनकोलेऽस्य निर्माणमभूत् इति इतिहासे उल्लेखोऽस्ति । स्थापत्यकलायाः उत्तमोदाहरणमेतन्मन्दिरं भगवतः शिवस्य अद्भुतमन्दिरमस्ति ।

शनिमन्दिरम् सम्पादयतु

चम्पावतमण्डलस्य मौराडीग्रामे स्थितमस्त्येतन्मन्दिरम् । अस्य नामान्तरमस्ति मनोकामनामन्दिरम् इति । भक्तानां मतमस्ति यत्, तस्मिन् मन्दिरे स्थितस्य शनिदेवस्य दर्शनमात्रेण भक्तानां मनोकामनाः सिध्यन्त्येव इति । अतिरमणीयमेतन्मन्दिरं प्राकृतिकसौन्दर्यायापि प्रसिद्धमस्ति ।

नागनाथमन्दिरम् सम्पादयतु

उत्तराखण्डस्य कुमाऊंविभागस्य पुरातनतमेषु मन्दिरेषु अस्य मन्दिरस्य गणना भवति । अस्य मन्दिरस्य वास्तुकला बहु पुरातना अस्ति । भक्ताः, वास्तुकलासंशोधकाः, पर्यटकाः च मन्दिरं गच्छन्ति ।

मीठा-रीठा साहिब सम्पादयतु

सिक्खजनानां मुख्यधार्मिकस्थलेषु अन्यतममस्ति एतत् । चम्पावत-नगरात् द्विसप्ततिः (७२) कि.मी. दूरे स्थितमस्ति एतत् गुरुद्वारम् । अत्र लोदिया-रतियानद्योः सङ्गमः अस्ति । गुरुद्वारं परितः ‘रीठा’-नामकवृक्षाः रोपिताः सन्ति । ‘रीठा’-वृक्षस्य स्वादः तिक्तः (Bitter) भवति । किंवदन्ती अस्ति यत्, सिक्खसम्प्रदायस्य प्रथमगुरुः नानक अत्र आगतवान् आसीत् । सिक्खाद्यगुरुः यदा ‘रीठा’-वृक्षम् अस्पृशत्, तदा तस्य स्वादः मधुरः अभूत् । ततः सर्वे एतत् गुरुद्वारं मीठा-रीठा साहिब इति कथयन्ति । अस्य गुरुद्वारस्य समीपे धीरनाथमन्दिरमस्ति । वैशाखमासस्य पूर्णिमादिने तत्र उत्सवस्यायोजनं भवति ।

पूर्णागिरिमन्दिरम् सम्पादयतु

पूर्णागिरौ स्थितमस्ति, अतः अस्य नाम पूर्णागिरिमन्दिरमिति । कालीनद्याः तीरे स्थितमेतत् देवीमन्दिरं चम्पावत-नगरात् द्विनवतिः (९२) कि.मी. दूरेऽस्ति । नवरात्रस्य समये अत्र विशेषपूजा भवति ।

श्यामातल सम्पादयतु

अत्र श्यामातलनामकः तडागः अस्ति । चम्पावत-नगरात् षड्पञ्चाशत् (५६) कि.मी. दूरे स्थितः अस्ति एषः तडागः । एतत् स्थानं स्वामिविवेकानन्दस्य आश्रमत्वादपि प्रख्यातमस्ति । तडागस्य प्राकृतिकसौन्दरं यथा मनमोहकमस्ति, तथैव आश्रमस्य वातावरणं मनमोहकं, शान्तिदायकं चास्ति ।

पञ्चेश्वरमन्दिरम् सम्पादयतु

काली-सरयूनद्योः सङ्गमस्थले स्थितमस्ति एतत् शिवमन्दिरम्महाशिवरात्रिसमये तत्र लक्षशः भक्ताः दर्शनाय गच्छन्ति ।

बाह्यानुबन्धः सम्पादयतु

http://champawat.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/champawat.htm

http://www.euttaranchal.com/uttaranchal/champawat.php

http://dcchp.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=चम्पावतमण्डलम्&oldid=481544" इत्यस्माद् प्रतिप्राप्तम्