छतरपुरमण्डलम् ( /ˈxhətərəpʊrəməndələm/) (हिन्दी: छतरपुर जिला, आङ्ग्ल: Chhatarpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति छतरपुरम् इति नगरम् ।

छतरपुरमण्डलम्

chhatarpur District
छतरपुर जिला
छतरपुरमण्डलम्
छतरपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे छतरपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे छतरपुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि छतरपुरम्, राजनगर, बिजावर, घुवाडा, बुक्शवाह, बडामल्हेडा, नवगङ्ग, महाराजपुर, लौन्दी, गौरीहाड, चन्दला
विस्तारः ८,६८७ च. कि. मी.
जनसङ्ख्या (२०११) १७,६२,३७५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६३.७४%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४४.५%
Website http://chhatarpur.nic.in/

भौगोलिकम् सम्पादयतु

छतरपुरमण्डलस्य विस्तारः ८,६८७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे पन्नामण्डलं, पश्चिमे टीकमगढमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे दमोहमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं छतरपुरमण्डलस्य जनसङ्ख्या १७,६२,३७५ अस्ति । अत्र ९,३६,१२१ पुरुषाः, ८,२६,२५४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८३ अस्ति । अत्र साक्षरता ६३.७४% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- छतरपुरम्, राजनगर, बिजावर, घुवाडा, बुक्शवाह, बडामल्हेडा, नवगङ्ग, महाराजपुर, लौन्दी, गौरीहाड, चन्दला ।

कृषिः वाणिज्यं च सम्पादयतु

गोधूमः, ’जवार’ अस्य मण्डलस्य मुख्योत्पादनानि सन्ति । वरदारुः, महुवा, जम्बूफलम् इत्येषाम् अपि अत्र व्यापारः अधिकतया भवति ।

वीक्षणीयस्थलानि सम्पादयतु

चित्रगुप्त-मन्दिरम् सम्पादयतु

चित्रगुप्तमन्दिरे भगवतः सूर्यस्य प्रकाशः उदयकाले साक्षात् गर्भगृहं प्रविशति । गर्भगृहे भगवतः सूर्यस्य चित्रं भव्यम् अस्ति । इदं पञ्च-मीटर-परिमितं चित्रम् अस्ति । अस्मिन् चित्रे एकः अश्वरथः अस्ति । अस्मिन् चित्रे चन्देलन्यायालयानां भव्यजीवनशैली, व्याधकला, राजकीयशोभायात्रा च प्रदर्शिता अस्ति ।

विश्वनाथ-मन्दिरम् सम्पादयतु

विश्वनाथ-मन्दिरे भगवतः चतुर्मुखब्रह्मणः त्रिमुखिप्रतिमा अस्ति । अस्य मन्दिरस्य समक्षे एकस्य वृषभस्य मूर्तिः अस्ति ।

लक्ष्मण-मन्दिरम् सम्पादयतु

लक्ष्मण-मन्दिरस्य अपरं नाम वैष्णवमन्दिरम् अस्ति । अस्य मन्दिरस्य प्रवेशद्वारे लक्ष्म्या सह त्रिमूर्तीनां ब्रह्माविष्णुमहेशानां प्रतिमाः सन्ति । अस्य मन्दिरस्य गर्भगृहे विष्ण्ववतारयोः नरसिंहवराहयोः मूर्ती अपि स्तः ।

मातङ्गेश्वर-मन्दिरम् सम्पादयतु

मातङ्गेश्वर-मन्दिरे भगवतः शिवस्य लिङ्गम् अस्ति । अस्य लिङ्गस्य औन्नत्यं ८ फीट परिमितम् अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://chhatarpur.nic.in/
http://www.census2011.co.in/census/district/292-chhattarpur.html

"https://sa.wikipedia.org/w/index.php?title=छतरपुरमण्डलम्&oldid=463954" इत्यस्माद् प्रतिप्राप्तम्