जाकिर हुसैन (तबलावादकः)

उस्ताद झाकिर हुसैनः (जन्म क्रि.श. १९५१तमवर्षस्य मार्च मासस्य नवमदिनम्) महाराष्ट्रराज्ये जतः अयं भारतदेशस्य ख्यातः तबलावादकः । अस्य पिता अल्लारखा इति एव निपुणः तबलावादकः एव । अस्मै सर्वकारेण क्रि.श. २००२तमे वर्षे कलाक्षेत्रे पद्मभूषणप्रशस्तिः प्रदत्ता । हालिवुड् (भारतीयहिन्दीचलच्चित्रलोकः) मध्ये कार्यं कुर्वाणः प्रमुखविश्वविद्यालयानाम् अपि सन्दर्शकप्राध्यपकः अस्ति ।

तबलावादननिरतः झाकिर् हुसैनः

जीवनपरिचयः सम्पादयतु

झाकिर हुसैनस्य बाल्यं मुम्बैनगरे व्यतीतम् । एषः स्वस्य द्वादशे वयसि एव सङ्गीतप्रपञ्चे तबलावाद्यस्य नादं विकीरयितुम् आरब्धवान् । आरम्भिकशिक्षातः स्नातकपदव्याः अनन्तरं झाकिर हुसैनः कलायाः क्षेत्रे स्वं स्थापयितुम् आरब्धवान् । क्रि.श.१९७३तमे वर्षे अस्य तबलावादनस्य " लिविंग इन द मैटेरियल वर्ल्ड " इति गीतगुच्छ लोकार्पितम् । एतत्पश्चात् हुसैनः निश्चितवान् यत् स्वस्य तबला नादः विश्वे सर्वत्र अनुरणितं भवतु । क्रि.श. १९७३तमवर्षतः क्रि.श.२००७पर्यन्तं झाकिर हुसैनः अन्ताराष्ट्रिय समारोहेषु स्वस्य गीतगुच्छेषु च तबलावादनसौष्ठवं प्रदर्शितवान् । एषः न केवलं भारतदेशे प्रसिद्धः तबलावादकः किन्तु विश्वे अनेकेषु देशेषु अस्य खातिः अस्ति एव ।

प्रशस्तिपुरस्काराः सम्पादयतु

क्रि.श.१९८८तमे वर्षे पद्मश्रीप्रशस्तिं प्राप्तवान् तदा अस्य आयुः ३७वर्षाणि आसन् । प्रशस्तिभाजसु एव कनीयतमः एषः प्रशंसितः । क्रि.श. २००२तमे वर्षे पद्मभूषणप्रशस्तिः क्रि.श.२००९तमे वर्षे ग्राम्मीप्रशस्तिः च अनेन प्राप्ताः ।

बाह्यानुबन्धाः सम्पादयतु

वीथिका सम्पादयतु