इति पत्रिकायाः मुखपुटे प्रकाशितं प्रयोगनिरतस्य जोनास् एड्वर्ड् साकस्य चित्रम्]]

जोनास् एड्वर्ड् साक्
जननम् Jonas Edward Salk
(१९१४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२८)२८ १९१४
New York City
मरणम् २३ १९९५(१९९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२३) (आयुः ८०)
La Jolla, California,
United States
वासस्थानम् New York City
Pittsburgh, Pennsylvania
La Jolla, California
देशीयता American
कार्यक्षेत्राणि Medical research,
virology and epidemiology
संस्थाः University of Pittsburgh
Salk Institute
मातृसंस्थाः City College of New York
New York University
संशोधनमार्गदर्शी Thomas Francis, Jr.
विषयेषु प्रसिद्धः First polio vaccine
प्रमुखाः प्रशस्तयः Lasker Award (1956)
पतिः/पत्नी Donna Lindsay (m. 1939–वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १), Françoise Gilot (m. 1970–वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १)
हस्ताक्षरम्

(कालः – २८. १०. १९१४ तः १९९५)

अयं जोनास् एड्वर्ड् साक् (Jonas Edward Salk) "पोलियो”–रोगस्य औषधस्य संशोधकः । एषः जोनास् एड्वर्ड् साक् १९१४ वर्षे अक्टोबरमासस्य २८ तमे दिनाङ्के अमेरिकादेशस्य न्यूयार्क्-नगरे जन्म प्राप्नोत् । अस्य जोनास् एड्वर्ड् साकस्य पितरौ मूलतः पोलेण्ड्-देशस्थौ । ततः अमेरिकादेशम् आगत्य उषितवन्तौ आस्ताम् । अस्य जोनास् एड्वर्ड् साकस्य अध्ययनं न्यूयार्कविश्वविद्यालयस्य वैद्यकीयविद्यालये अभवत् । सः १९३० तमे वर्षे वैद्यपदवीं प्राप्नोत् । १९४० तमवर्षस्य अनन्तरं "सार्वजनिक–आरोग्यविद्यालयमिषिगन् (मिषिगन् स्कूल् आफ् पब्लिक् हेल्त्) तथा वैद्यकीयविद्यालय–पिट्स्बर्ग (पिट्स्बर्ग् स्कूल् आफ् मेडिसिन्) इत्यत्र च शिक्षकरूपेण कार्यम् अकरोत् ।


सः जोनास् एड्वर्ड् साक् अध्ययनकालतः अपि विषाणूनां (वैरस्) विषये आसक्तः आसीत् । ते विषाणवः अतिसूक्ष्माः । तेषां दर्शनम् एलेक्ट्रान्–मैक्रोस्कोप्–द्वारा एव करणीयम् । ते विषाणवः अन्येषां जीविनां शरीरे जीवन्ति । ते परावलम्बिनः । तादृशानां विषाणूनां विषये आसक्तः जोनास् एड्वर्ड् साक् १९४२ तमे वर्षे संशोधन–फेलो प्राप्तवान् । तथा विद्यार्थिवेतनं प्राप्य "इन्फ्लुयेञ्जा”–रोगस्य कारणीभूतानां विषाणूनां विषये संशोधनं कृतवान् । तदनन्तरं "पोलियो-मैलिटिस्”–रोगस्य निवारणस्य उपायानां विषये संशोधनम् आरब्धवान् । सः "पोलियो”–रोगः विश्वे सर्वत्र व्याप्तः रोगः । तस्य रोगस्य कारणीभूताः विषाणवः मुखद्वारा एव शरीरं प्रविश्य मस्तिष्कम् आवृण्वन्ति । तेन "पोलियो”–रोगेण पीडिताः बहवः गुणमुखाः भवन्ति । किन्तु विषाणवः यदि तीव्ररूपेण आक्रमिताः भवन्ति तर्हि नाड्यः सर्वाः क्षीणाः भवन्ति । ततः ते रुग्णाः अतिदुर्बलाः भवन्ति । अयं जोनास् एड्वर्ड् साक् तेषां "पोलियो”–रोगाणूनां विषये गभीरम् अध्ययनम् अकरोत् । एण्डर्स इत्यादयः विज्ञानिनः "पोलियो”–विषाणूनां कृतकरूपेण वर्धने सफलतां प्राप्तवन्तः आसन् । तस्य संशोधनस्य उपयोगं प्राप्य अयं जोनास् एड्वर्ड् साक् तेषां विषाणूनां निश्शक्तकरणस्य विषये अवधानम् अददात् । रोगाणून् सम्पूर्णतया अमारयित्वा रोगकारकाणां नियन्त्रणस्य प्रतिविषम् (आण्टिबाडीस्) महता श्रमेण संशोधितवान् ।१९५२ तमवर्षाभ्यन्तरे संशोधितम् औषधं तदा एव "पोलियो”–रोगेण पीडितेभ्यः बालेभ्यः अददात् । ते बालाः स्वस्थाः अभवन् । तदेव सूच्यौषधम् अरोगिभ्यः बालेभ्यः यदा अददात् तदा तेषु बालेषु "पोलियो”–रोगस्य विरुद्धं रोगनिरोधकशक्तिः अवर्धत । तदनन्तरं १९५४ वर्षादारभ्य "पोलियो”–रोगस्य औषधम् अधिकप्रमाणेन उत्पादयितुम् आरब्धवान् । सः विषयः विश्वाद्यन्तं बहुशीघ्रं प्रसृतः । "पोलियो”–रोगस्य निवारणस्य अनन्तरं सः जोनास् एड्वर्ड् साक् "क्यान्सर्”–रोगस्य परिहारस्य विषये संशोधनम् आरब्धवान् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जोनास्_एड्वर्ड्_साक्&oldid=480365" इत्यस्माद् प्रतिप्राप्तम्