नन्दिगिरिः (Nandi Hills) कर्णाटकस्य चिक्कबळ्ळापुरमण्डले विद्यमानः कश्चन सुन्दरः पर्वतः ।

नन्दिगिरिः

ಉಡುಪಿ ಜಿಲ್ಲೆ
नगरम्
नन्दिनगरात् नन्दिपर्वतस्य दृश्यम्
नन्दिनगरात् नन्दिपर्वतस्य दृश्यम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
Elevation
१,४७८ m
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
समीपस्तम् नगरम् बेन्गलुरु
नन्दिगिरिप्रदेशः

पीठिका सम्पादयतु

नन्दिबेट्ट (कर्णाटकभाष्यया बेट्ट इयुक्ते पर्वतः/गिरिः) इति कन्नडभाषया प्रसिद्धः अयं गिरिः भारतदेशस्य कश्चित् पुरातनः गिरिः । कर्णाटकस्य राजधानीतः बेङ्गळूरुतः ४५ कि.मी. दूरे चिक्कबळ्ळापुरपत्तनतः १०कि.मी.दूरे अस्ति । अयं पर्वतः मुद्देनहळ्ळि, कणिवेनारायणपुरम्, नन्दिहळ्ळि इति त्रयाणां ग्रामाणां मध्ये विराजते ।

 
वृषभस्य महामूर्तिः

इतिहासः सम्पादयतु

नन्दिगिरेः नाम्नः विषये एव अनेकाः कथाः प्रचलिताः सन्ति । पूर्वम् अस्य नाम आनन्दगिरिः इति आसीत् । अस्य नाम यथार्थम् एव आसीत् । प्राचीनं किञ्चित् शिलाप्रशासनं १००० वर्षेभ्यः पूर्वं निर्मिता महानन्दिमूर्तिः अत्र अस्ति । अतः अस्य नन्दिबेट्ट इति नाम । नन्दीश्वरः नाम कश्चित् तापसः अस्मिन् एव गिरिप्रदेशे तपः कृतवान् इति कारणेन नन्दिबेट्ट इति नाम प्राप्तम् इत्यपि प्रतीतिः अस्ति । प्राचीनकालस्य शिवपार्वत्योः देवालयः अस्य पर्वतस्य शोभां वर्धयति । अयं प्रदेशः यदा टिप्पुसुल्तानस्य प्रशासने आसीत् तदा दुर्गं रचितवान् । अतः नन्दिदुर्गः इत्यपि कथयन्ति । दूराद् अयं पर्वतः प्रसुप्तः वृषभः(नन्दिः) इव दृश्यते इति नन्दिबेट्ट इति कथयन्ति इति केषाञ्चन अभिप्रायः ।

वीथिका सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नन्दिगिरिः&oldid=481621" इत्यस्माद् प्रतिप्राप्तम्