"नरसिंहमहेता" गुजरातभाषायाः प्रथमः कविः आसीत् ‌। अतः सः आदिकवि: इति उच्यते । तेन रचितासु कृतीषु "वैष्णवजनतो" भजनं प्रसिद्धम् अस्ति । तत् महात्मगान्धेः प्रियम् आसीत् । अस्मिन् भजने गुणिजनस्य गुणानाम् उत्तमं वर्णनं दृश्यते । तेन रचिते साहित्ये कृष्णभक्ते: दर्शनं भवति। तस्य जीवनविषये रचितं साहित्यं नाम-'शामळदासणनो विवाह', 'कुंवरबाइनु मामेरु, 'नरसिहमहेताना बापानुं श्राद्ध्' इत्यादि प्रसिद्धं वर्तते।


सम्माननम् सम्पादयतु

प्रसिद्धानि पद्यानि प्रति गुजरातीभाषाया: श्रेष्ठकविभ्य: 'नरसिंहमहेता' पारितोषिकं दियते। तस्य प्रारम्भ: इ स १९९९ त: अभवत्। तत् पारितोषिकम् आद्यकवि: नरसिंहमहेता साहित्यनिधिट्रस्ट् द्वारा प्रदीयते।

परिचयः सम्पादयतु

जन्म - १४२४ तळाजाग्रामे
मृत्युः १४८०
निवासः - जुनागढम्, गुजरातम्, भारतम्
स्नेहजं नाम - नरसैयो
उद्योगः- कवित्वम्
धर्मः- हिन्दु:
पत्नी - माणेकबाई
अपत्यम् - शामळदास:, कुंवरबाई

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नरसिंह_महेता&oldid=482426" इत्यस्माद् प्रतिप्राप्तम्