गोसम्बद्धं सर्वं गव्यम् इति उच्यते । गौः सर्वत्र पूज्या एव । तया वयं यत् यत् प्राप्नुमः तत् सर्वम् अमृतसमानम् एव । अतः एव सा "कामधेनुः" इति उक्तम् अस्ति ।

कामधेनुः

क्षीरं, दधि, घृतम्, गोमूत्रं, गोमयम् - इति एतेषु एकैकमपि गव्यं विशिष्टगुणयुक्तं भवति । यदि पञ्च अपि गव्यानि विधिवत् मन्त्रपूर्वकं योजयाम: तर्हि तद्भवति इतोऽपि विशिष्टं 'पञ्चगव्यम् ।’ भारतीयानां सुपरिचितमेव इदं शुद्धिकारकं पञ्चगव्यम् । आशौचान्ते पञ्चगव्यप्राशनं कृत्वा शुद्धा: भवन्ति जना: । पञ्चगव्यसेवनसमये उच्यमानोऽयं श्लोकं ज्ञापयति तदीयं महत्त्वम् -

यत् त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥ इति ।

पञ्चगव्यघृतम्’ इति विशिष्ट: योग: आयुर्वेदे प्रयुज्यते । तदुक्तम् -

गोशकृद्रसदध्यम्लक्षीरमूत्रै: समैर्घृतम् ।
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम् ॥ (च.चि.17) इति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पञ्चगव्यम्&oldid=410357" इत्यस्माद् प्रतिप्राप्तम्