डा. पाण्डुरङ्ग वामन काणे ( क्रि.श. १८८०तः १९७२) प्रसिद्धः संस्कृतभाषायाः तथा भारतशास्त्रस्य (इण्डलजि) पण्डितः । अस्य जन्म भारदेशस्य महाराष्ट्रराज्यस्य रत्नागिरिमण्डलस्य साम्प्रदायिके चित्पवनविप्रकुटुम्बे अभवत् ।

पाण्डुरङ्ग वामन काणे
जन्म (१८८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०७)७, १८८०
रत्नागिरिमण्डलम्, महाराष्ट्रराज्यम्
मृत्युः ८, १९७२(१९७२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०८) (आयुः ९२)[१]
मुम्बई Edit this on Wikidata
शिक्षणस्य स्थितिः मुंबई विश्वविद्यालयम् Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, Indologist edit this on wikidata
पुरस्काराः भारतरत्नम् (१९६३)

जीवनम् सम्पादयतु

धर्मशास्त्रस्य इतिहासः भारते प्राचीनाः तथा मध्ययुगीयाः धर्माः प्रजाधर्मः च इति आङ्ग्लभाषा महाग्रन्थरचनेन डा. काणेवर्यः सुप्रसिद्धः [२]। प्राचीनकाले तथा मध्यकाले धर्मशास्त्रस्य विकासस्य विषये अयं महाग्रन्थः अनेकशतमानस्य ग्रन्थान् हस्तप्रतयः च संशोध्य प्रणीतः । पञ्चभागेषु प्रकाशितः । अस्य प्रथमस्कन्दः क्रि.श. १९२०तमे वर्षे लोकार्पितः अन्तिमः क्रि.श १९६२तमे वर्षे प्रकाशितः । डा.काणेवर्यः मुम्बैनगरस्य एशियाटिक् सोसैटि तथा पुणेनगरस्य भण्डार्कर ओरियण्टल रिसर्च इन्स्टिट्यूट् इत्यादिसंस्थानां ग्रन्थानाम् अध्ययनम् अकरोत् । महाभारतम्, पुराणानि, कौटिल्यः इत्यादीन् वैशाल्ययुक्तविषयान् गाढं संशोध्य लिखितः इति अस्य ग्रन्थस्य वैशिष्ट्यम् । अस्य संस्कृतपाण्डित्येन पुरातनग्रन्थान् न वैभवीकृत्य वसुनिष्ठदृशा विमर्शितवान् इति अस्य कृतेः विशेषता । व्यवहारमयूखम् इति ग्रन्थं काणेमहोदयः लिखितवान् । पाठकानां धर्मशास्त्रस्य स्थूलपरिचयार्थं प्राक्कथनरूपेण धर्मशास्त्रस्य इतिहासं योजितुम् इष्टवान् । किन्तु तदेवविस्तारतां प्राप्य पञ्चभागेषु बृहद्ग्रन्थः अभवत् । तथापि आङ्ग्लभाषया धर्म इति पदस्य समानर्थकपदं नास्तीति प्रतिपादितवान् । संस्कृतम्, मराठी, आङ्ग्लम् इति भाषासु आहत्य १५०००पुटानि लिखितवान् ।

प्रशस्तिपुरस्काराः सम्पादयतु

डा. काणेवर्यः स्वस्य अपारेण पाण्डित्येन महामहोपाध्यायः इति सम्मानितः मुम्बैविश्वविद्यालयस्य उपकुलपतिरिति सेवाम् अकरोत् । कुरुक्षेत्रविश्वविद्यालये भारतशास्त्रस्य विभागं समारब्धुम् अस्य साहाय्यम् प्रार्थितम् । क्रि.श. १९५६तमे वर्षे तस्य महाग्रन्थस्य चतुर्थभागः संस्कृतभाषासंशोधनविभागे साहित्याकादमीपुरस्कारेण सम्मानिततः । एष भारतीयविद्याभवनस्य गौरवसदस्यः अपि आसीत् [३]। शिक्षाक्षेत्रे अस्य योगदनं परिगणय्य राज्यसभायाः डा.काणे सदस्यत्वेन नामाङ्कितः। क्रि.श. १९६२तमे वर्षे एषः भारतस्य अत्युच्चनागरिकप्रशस्त्या भारतरत्नेन सम्मानितः ।

अन्यविष्ययाः सम्पादयतु

भारतस्य संविधानम् जनानां मनसि प्रत्येकं केवलम् अधिकरः अस्ति कर्तव्यं न इति भावं जनयति भारतस्य साम्प्रदायिकमौल्येभ्यः दूरं तिष्ठति इति काणेवर्यस्य अभिप्रायः । अस्य ग्रन्थस्य विश्वकोशीयव्याप्तेः विषयाणाम् आधिकारिकनिरूपणेन च राजनैतिकचर्चासु अस्य ग्रान्थानाम् उल्लेखः भवति स्म । अटल बिहारी वाजपेयी वर्यस्य मन्त्रिमण्डलस्य काले प्राचीनभारतीयाः गोवधासक्ताः उत न इति चिन्तने समागते परविरोधिनः च काणेमहोदयस्य ग्रन्थात् एव विषयान् समुद्धरन् ।

काणेस्मरणार्थम् सम्पादयतु

क्रि.श. १९७४तमे वर्षे पौर्वात्याध्यायनस्य प्रोत्साहनर्थं मुम्बैनगरस्य एशियाटिक् सोसैटि इति संस्थया पि.वि.काणे वर्यस्य संस्मरणे महामहोपाध्ययः पिविकाणे स्नातकोत्तरसंशोधनकेन्द्रम् आरब्धम् । वैदिकधर्मशास्त्रे अथवा अलङ्कारशास्त्रे अमूल्यं योगदानं येषां भवति तेभ्यः वर्षत्रये एकवारं पि.वि.काणे सुवर्णपदकसहितं सम्माननं क्रियते ।

टिप्पणी सम्पादयतु

  1. "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha Secretariat. आह्रियत 30 September 2015. 
  2. S.G. Moghe, (1997). Professor Kane's Contribution to Dharmasastra Literature. p. 380. ISBN 9788124600757. Archived from the original on 2016-03-04. आह्रियत 2014-08-20. 
  3. "Honorary member of Bharatiya Vidya Bhavan". Archived from the original on 2018-02-13. आह्रियत 20 अगस्त 2014. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पाण्डुरङ्ग_वामन_काणे&oldid=482042" इत्यस्माद् प्रतिप्राप्तम्